________________ सूत्र 15 ] . स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 165 स्त्री-वस्त्र-शयना-ऽऽसन-भाजना-दिरूपो भोगः / पुनः पुनरुपभुज्यते हि सः। पौनःपुन्यं चोपशब्दार्थः। स सम्भवन्नपि यस्य कर्मण उदयान्न परिभुज्यते तत् कर्म उपभोगान्तरायाख्यम् / वीर्यमुत्साहः चेष्टा शक्तिरिति पर्यायाः / तत्र कस्यचित् कल्पस्याप्युपचितवपुपोऽपि यूनोऽप्यल्पप्राणता यस्य कर्मण उदयात् स वीयोन्तराय इति / उक्तलक्षणस्य वीर्यान्तरायस्य सामस्त्येनोदयः पृथिव्यप्तेजोवायुवनस्पतिषु क्षयोपशमजनिततारतम्यात् / द्वीन्द्रियादेस्तु वृद्धि वीर्यस्य यावद्धि चरमसमयच्छद्मस्थ इति प्रकर्षापर्प विशेपोपलब्धेः / उत्पन्न केवले तु भगवति सर्ववीर्यान्तरायक्षयः / तत्र तु निरतिशयं वीर्यमिति / अत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति-बन्धं प्रतीत्य एतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वसम्यग्मिध्यात्वयोन्धिो नास्ति / मिथ्यादर्शनपुद्गलानामेव तथा परिणामात, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतम् / ताश्चमाः-ज्ञानावरणं पञ्चभेदम् अन्तरायं च, दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्धा, नामकर्मणि गतिश्चतुर्विधा आनुपूर्वी च, जातिनाम पञ्चविधं, शरीरनाम च, बन्धनसवातनाम्नोः शरीरनामान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम पोढा संहननं च, अङ्गोपाङ्गं त्रिधा, विहायोगतिर्द्विधा, वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छासातपोद्योतत्रसस्थावरबादरमूक्ष्मपयोप्तापयोप्तप्रत्येकशरीरसाधारणशरीरस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरादेयानादेययशोनामायशोनामनिर्माणनामतीर्थकरनामान्येकभेदानि भवन्ति // 14 // इत्थं प्रकृतिबन्धनिरूपणमभिधाय स्थितिबन्धमभिधेयतयोपक्रममाण आह-- भा०-उक्तः प्रकृतिबन्धः / स्थितिबन्धं वक्ष्यामः। टी.---उक्तः प्रकृतिबन्धः / स्थितिवन्धं वक्ष्याम इति / प्रकृतिवन्धो यथाबदभिहितः। सम्प्रति स्थितिबन्धमभिधास्याम इति प्रतिजानीते भाष्यकारः / तदभिधित्सया चेदमाह सूत्रम्-आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः // 8-15 // सूत्रगतशब्दप्र- टी०-आदित इत्यादि सूत्रम् / आदावादितः औपसंख्यानिकस्तसिः / योजनानि आधादिभ्यस्तसिर्वाच्यः / तिसृवचनमन्यमूलप्रकृतिव्युदासार्थम् / ततवान्यप्रकृत्यसम्प्रत्येयान्तरायवचनमन्तरस्थित्यविलङ्घनार्थम् / सामान्यस्थित्यर्थमित्यर्थः। च. शन्देनान्तरायस्य समुच्चयः / सागरकोटीनां च कोट्यः / परेति प्रकृष्टा, मध्यमजघन्यस्थितिनिरासः / स्थितिवचनं प्रतिज्ञातोपसंहारार्थम् / आदितस्तिसृणामित्यादिभाष्येणामुमर्थ प्रतिपादयति-- १'समयस्थ' इति च-पाटः / 2 परिणतेः ' इति कु-व-पाटः /