________________ 164 तत्वार्थाधिगमसूत्रम् [ अध्यायः 8 टी०-यदुदयाज्जीवो गच्छत्युचैींचैश्च जातीरुच्चावचास्तद् गोत्रं द्विविधम्-उच्चैनींचैश्चेति उच्चैगोत्रं नीचैर्गोत्रम् / चशब्दोऽवधारणार्थः / विभेदं द्विप्रकारमेवेति / तत्रोच्चैगर्गोत्रमित्यादिना गोत्रकर्मणः कार्यमावेदयते / कार्यलिङ्गं हि कारणं तयोद्वयोः प्रकृत्योर्यदुच्चैर्गोत्रं तस्येदं कार्यमिति दर्शयति / आर्यदेशे मगधा-ऽङ्ग वङ्ग कलिङ्गादिके सम्भवः जातिः / पितुरन्धयो हरिवंशेक्ष्वाकुप्रभृतिः / कुलं मातुरन्धयः / सोऽप्येवंप्रकार एवोग्रभोजादिलक्षणः / स्थानमिति / प्रभोः समीपे प्रत्यासननिवेशित्वम् / मानः पूजा स्वहस्तेन ताम्बूलप्रदानादिः / सत्कारोऽभ्युत्थानासनाञ्जलिप्रग्रहादिः क्रियते तस्यासौ, उच्चैर्गोत्रादयः ऐश्वर्यमिभाश्वरथपदातिप्रभृतेः प्राभूत्यं उत्कर्षापकर्षभाक्त्वादनेकविधम् / एषां देशादिसम्भवानां निर्वर्तकमुच्चैर्गोत्रम् / विपरीतं नीचैर्गोत्रमिति / चण्डालाः प्रसिद्धा एव मातङ्गाः / चण्डालग्रहणं च प्रदर्शनं बहूनां वरुडकमुरुक्ककादीनाम् / मौष्टिकाः शौरिकादयः / व्याधा मृगयवो लुब्धकाः / मत्स्यबन्धाः प्राणातिपातहेतुभिरानायादिभिजीवन्ति ये / दासभावो दास्यं तनिर्वतकं नीचैर्गोत्रमिति / आदिशब्दादवस्करशोधकादिपरिग्रह इति // 13 // अष्टमप्रकृतेर्बन्धस्वरूपनिरूपणायाह सूत्रम्-दानादीनाम् // 8-14 // भा०-अन्तरायः पञ्चविधः। तद्यथा-दानस्यान्तरायः, लाभस्यान्तराया, अन्तरायस्य प्रकृति- भोगस्यान्तरायः, उपभोगस्यान्तरायः, वीर्यस्यान्तराय इति पञ्चकत्यम् // 14 // टी०-दानादीनाम् एतावत् सूत्रम् / तत्र दानादीनामिति षष्ठी प्रतिविशिष्टसम्बन्धापेक्षा / प्रस्तुतश्चान्तरायो मूलप्रकृतिवन्धमाह-अन्तरायः पञ्चविध इति / तद्यथेत्यनेन पञ्चविधतां दर्शयति-दानस्येत्यादि / दान-देयम् / सत्यपि द्रव्ये न ददाति तद्धि कर्मोदितं दीयमानस्य कर्मणो विनम्-अन्तरायमन्तर्धानं करोतीति दानान्तरायः। द्रव्ये प्रतिग्राहके च सन्निहितेऽस्मै दत्तं महाफलमिति जोनानोऽपि दातव्यं न ददाति / एवं लाभभोगोपभोगवीर्यान्तरायेष्वपि योज्यम् / तथा कश्चिद् वदान्यः सर्वदा दानाकरः समस्तार्थिभ्यो यथाप्रार्थनं स्वशत्या निर्विशेषमूर्जितचेता यस्मै याचतेऽपि नो विसृजति प्रदेयमल्पमपि तस्य लाभान्तरायकर्मोदयः / तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षम माल्य-चन्दनाऽगुरुप्रभृति, तच्च सम्भवादपि यस्य कमेण उदयाद् यो न भुङ्क्ते तस्य भोगान्तरायकर्मोदयः / 1 'मुरुक्तकादीनाम्' इति च-पाटः / 2 'अन्तरायः ' इत्यधिको ग-पाठः / 3 ' मूलप्रकृतिबन्धितना(?)भिसम्बन्ध' इति च-पाठः। 4 'जाननपि ' इति च-पाठः / ५'मञ्छित" इति उ-पाठः /