________________ 163 सूत्रं 13 ] स्वोपज्ञभाष्य टीकालङ्कृतम् चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति / तदेतद्विपरीतमस्थिरनामेत्यनेन प्रतिपादितम् // भा०-आदेयभावनिर्वर्तकं आदेयनाम / विपरीतमनादेयनाम // टी०-गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्टं सत् / एतदुक्तं भवति-यस्योदयेन नामकर्मोदयस्तेनोक्तं प्रमाणं क्रियते यत् किश्चिदपि दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकाः समाचरन्तीत्येवंविधविपाकमादेयनाम / विपरीतमनादेयनाम / युक्तियुक्तमपि वचनं यदुदयान्न प्रमाणयन्ति लोकाः, न चाभ्युत्थानाद्यर्हणाहस्यापि कुर्वन्ति तदनादेयनाम / अथवा आदेयता-श्रद्धेयता दर्शनादेव यस्य भवति स च शरीरगुणो यस्य विपाकाद् भवति तदादेयनाम / तेद्विपरीतमनादेयनामेति // भा०-यशोनिर्वर्तकं यशोनाम, तद्विपरीतमयशोनाम / टी०-यशः-प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसना यदुदयात् तद् यशोनाम / तद्विपरीतं अयशोनाम / दोपविषया प्रख्यातिरयशोनामेति // भा०-तीर्थकरत्वनिर्वतकं तीर्थकरनाम // ___टी-तीर्थकरत्वेति / यस्य कर्मण उदयात् तीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्तयति यतिगृहस्थधर्म च कथयति अक्षेिपसंक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत् तीर्थकरनामेति // नामकर्मभेदाख्यानाय नामशब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये भा०--तांस्तान भावान् नामयतीति नाम / एवं सोत्तरभेदो नामकर्मभेदोऽनेकविधः प्रत्येतव्यः // 12 // ... टी०-तांस्तानिति / तांस्तानाभिजात्यादीन् (भावान् ) नामयति-अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते / एवमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेद इति / गतिश्चतुर्धा जातिः पञ्चप्रकारेत्यादिरुत्तरप्रकृति भेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति // 12 // सम्प्रति प्रकृतिवन्धं गोत्रस्याख्यातुमुपक्रमतेगोत्रप्रकृती सूत्रम्-उच्चैनीचैश्च // 8-13 // भा०-उच्चैर्गोत्रं नीचैर्गोत्रं च (विभेदं गोत्रम्) / तत्रोच्चैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वर्याद्युत्कर्षनिर्वर्तकम् / विपरीतं नीचैर्गोत्रं चण्डालमुष्टिकव्याधमत्स्यगन्धदास्यादिनिर्वतकम् // 13 // 1 'प्रमीक्रियते ' इति च-पाठः / 2' विपरीत. ' इति ग-पाठः / 3 'यशोभावनिर्व.' इति ग-पाठः / 4 धमुश्चिहनान्तर्गतः पाठो घ-पुस्तके नास्ति /