________________ 162 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 8 तरत्वादिति / आहारपर्याप्तेः शरीरपर्याप्तिः सूक्ष्मतरा बहुतरसूक्ष्मद्रव्यनिचयघटिता / ततोऽपीन्द्रियपयाप्तिः सूक्ष्मतरा / तस्या अपि प्राणापानपयोप्तिः। ततोऽपि वाक्पयाप्तिः। ततश्च मन:पर्याप्तिः सुमुक्ष्मेति / तचोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन भावयति-सूत्रदादिकर्तनघटनव दिति / स्थलमूत्रकर्तिका सूक्ष्ममूत्रकर्तिका च ते कर्तनं युगपदारभेते / तत्र स्थूलसूत्रकर्तिका चिराय क्रुकुरकं पूरयति / इतरा त्वाशु परिसमापयति / दारुघटनेऽप्येष एव क्रमः / स्तम्भादीनां स्थूलरूपनिर्वर्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव स्तम्भः कुहिमपत्रच्छेद्यपुत्रिकासङ्घाटकयुक्तश्विरेण निष्पाधते तुल्यकालेऽपि प्रारम्भे / आदिशब्दाचित्र-पुस्तलेप्यकादिपरिग्रहः / यथासङ्ख्यं च निदर्शनानीति // ___ अनेन पणामपि पर्याप्तीनां क्रमेण पइभिरेव दृष्टान्तैः स्वरूपमुपक्रमते / अतो दृष्टान्तस्त्ररूपप्रतिपादनायाह . भा०-गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिगमस्थानशयनादिक्रियानिवर्तनानीति। पर्याप्तिनिर्वर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनाम, (अप. प्तिनाम) तत्परिणामयोग्यदलिकद्रव्यमात्मनोपासमित्यर्थः // टी०-गृहलिकग्रहणेत्यादि / तत्र गृहदलिकग्रहणेनाहारपर्याप्तिं साधयति / गृहं कर्तव्यमिति सामान्येन दलिकमादत्ते शाकादिकाष्ठम् / ततः सामान्योपात्ते दलिकेत्र स्तम्भः स्थूणा वा भविष्याति निरूप्यते / एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्गणा. योग्याः पुद्गलाः शरीरनिष्पादनक्षमा इति शरीरपर्याप्तिः / भित्त्याधुच्छायरूपगृहालोचनायामपि सत्यां कतिद्वारमिदं प्राङ्मुखमुदङ्मुखं वा प्रवेशनिगेमनार्थमालोच्यते, तथेन्द्रियपर्याप्ति. रप्यात्मन उपयोगवृत्त्या प्रवेशनिर्गमनद्वारस्थानीयेति / एवं प्राणापानभाषापर्याप्ती अपि एतेनैव निदर्शनेन साध्ये / दार्टान्तिकभेदात् तु दृष्टान्तभेदः। ततः सद्वारकेऽपि निष्पने समनि अत्रासनमत्र शयनीयमत्र भुजिभूरिति स्थानशयनादिक्रियानिर्वर्तनमालोचयन्ति गेहिनः, तद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारापेक्षालक्षणेति / एवमेताः षट् पर्याप्तीर्यनिवर्तयति तत् कर्म पर्याप्तिनाम, जापाकप्रक्षिप्तनिवृत्तघटवत् / अपर्याप्तिनाम तु अनिष्पन्नध्वस्यनिष्पन्नघटवदिति / एतदुक्तं भवति-यस्योदये पर्याप्तयो नासादयन्ति परिपूरिमतामपर्याप्त एव म्रियते, कदाचिद् वा विनाऽपि भवति यथा सम्मूछेनजमनुष्यादिरिति / भा-स्थिरत्वनिर्वर्तक स्थिरनाम / 'विपरीतमस्थिरनामः॥ टी-स्थिरत्वनिवर्तकं स्थिरनाम / यस्योदयाच्छरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तादीनां तत् स्थिरनाम / अस्थिरनामापि शरीरावयवानामेव / यदुदयादस्थिरता 1 . सूत्रा-' इति ड-पाठः / 3 धनुदिह नातर्गतो घ-पाटः / 3 . ' स्थापयतीति' इति उ--पाठः / 4 'हारोक्षा' इति च-पाठः / ५:धृतघटव इनि ड-पाठः / 6 'तदेद्विपरीत.' इति ग-पाठः / 'शिरोमुखदन्ता' इति ग-पाठः /