________________ सूत्र 12]. स्वोपज्ञभाष्य टीकालङ्कृतम् 161 : टी-शरीरेत्यादि / शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषामाहरणक्रिया ग्रहणम्-आदानं तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेषः / अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणे न मनसोऽप्युपादानमिति / सामान्येन गृहीतस्य योग्यपुद्गलसवातस्य शरीराङ्गोपाङ्गतया संस्थापनक्रिया-विरचनक्रिया तस्याः पर्याप्तिः शरीरपर्याप्तिः / संस्थापनशब्दार्थप्रकाशनं पर्यायशब्दैरावेदयते-संस्थापनं रचना घटनमित्यर्थः / शरीरवर्गणायोग्यपद्गलानां प्रतिनियतावयवेनेत्यर्थः। भा०-त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः / 'टी.-त्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शन-रसन घ्राण-चक्षुः-श्रोत्र-मनोलक्षणम् / तत्र च रूपनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः // भा०—प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः // टी-प्राणेति / प्राणापानावुच्छासनिश्वासक्रियालक्षणी तयोर्वर्गणाक्रमेण योग्यद्रध्यग्रहणशक्तिः-सामर्थ्य तन्निर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः // भा०-भाषायोग्धद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिर्भाषापयाप्तिः। . टी-अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसर्गों तद्विषया शक्तिः-सामर्थ्य तनिर्वर्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति // ... भा०-मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिर्मन:पयोतिरित्येके। री०- मनस्त्वयोग्यानि मनोवर्गणायोग्यानि मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरिति / एके वाचार्या मेदेन मनःपर्याप्तिमुपाददते / इन्द्रियपर्याप्ति नोइन्द्रियपर्याप्तिग्रहणेन गृह्णन्ते / इन्द्रियपर्याप्ति यतिरेकेणा पठन्तीत्यर्थः / न गुनर्मनःपर्याप्ति केचिदिच्छन्ति केचिनेति // भा०--आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मतरत्वात् सूत्रदार्थादिकर्तनघटनवत् / यथासङ्ख्यं च निदर्शनानि ____टी०-आसामित्यादिना षडपि पर्याप्तयः समकमारब्धाः क्रमण परिसमाप्तिमासादयन्तीति दर्शयति / किं पुनः कारणं वेषम्येण परिनिष्ठायाऽऽसामित्याह उत्तरोत्तरसूक्ष्म'. 1' स्वरूप ' इति च-पाठः / 2 'मनश्च' इति हु-4.5: / 3 र्गस्य पर्याप्तस्य' इति कु-पाठः / 4 'याप्तिरनिन्द्रिय' इति -पाठः।