________________ 160 तत्त्वार्थाधिगममूत्रम् [ अध्यायः 8 ____टी-पर्याप्तिः पञ्चविधेत्यादि / पर्याप्तिः पुद्गलरूपात्मनः कर्तुः करणविशेषः / येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते तच्च करणं यः पुरलौनिवर्यते ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते / सामान्येनोद्दिष्टां पर्याप्ति नामग्राहं विशेषेण 'निर्दिदिक्षन्नाह-तद्यथेत्यादि / आहारग्रहणसमर्थकरणपरिनिष्पत्तिराहारपर्याप्तिः / शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः / इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः / प्राणापानौ-उच्छवासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः / भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्तिर्भाषापर्याप्तिः / यथोक्तम् " आहारसरीरेंदिय ऊसासवओमणोऽहिनिवित्ती। होइ जओ दलियाओ करणं एसा.उ पज्जत्ती // " इतिशब्दःइयत्ताप्रतिपादनार्थः॥ ननु च पद पर्याप्तयः पारमर्षवचनप्रसिद्धाः कथं पञ्चसंख्याका इति ? उच्यतेइन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्तेरपि ग्रहणमवसेयम् / अतः पञ्चैवेति निश्चयः // ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः, कथमिन्द्रियग्रहणाद् ग्रपयोप्तिसङ्ख्या. हीष्यते तदिति ? उच्यते-यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षरादीनि परामर्शः न तथा मनः, सुखादीनां पुनः साक्षाद्ग्राहकं मनः, न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तम् / इन्द्रलिङ्गत्वात् तु भवत्येवेन्द्रियमिति // तथा केचिदाचार्याः पृथग्मन:पर्याप्तिग्रहणमधीयत इत्युपरिष्टादभिधास्यते / यच्चावधारणं पञ्चैवेति तद् बाह्यकरणापेक्षया / मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कश्चिद् दोषः / उभयथाऽपि मनःपर्याप्तिसम्भव इति / पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाहिरात्मनस्तैजसकार्मणशरीरमाज एव, औदारिकादिशरीरप्रेक्षायां प्रथमत एवोत्पत्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः / युगपचारब्धाः षडपि क्रमेण निष्पद्यन्ते, न सम्कम्, उत्तरोत्तरपयोप्तीनां बहुतरकालत्वात् / क्रमश्वायम्-आहार-शरीरे-न्द्रिय-प्राणापान-वचन-मनोलक्षणः / तत्राहारपर्याप्तिस्वरूपनिरूपणायाह भा०-शरीरेन्द्रियवाङ्मनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्ति: आहारपर्याप्तिः / गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपयोप्तिः। संस्थापनं रचना घटनमित्यर्थः। १.निर्दिदृक्ष' इति च-पाठः / 2 'करणपरिनिष्पति' इति च-पाठः / 3 छाया आहारशरीरेन्द्रियोच्छासनिःश्वासमनोऽभिनिवृत्तिः / भवति यस्मात् दलिकात् करण एषा तु पर्याप्तिः // ४'शरीर एव' इति ङ-पाठः /