________________ 159 सूख 12 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् .. भा०-स्थावरभावनिवर्तकं स्थावरनाम | स्थावरभावेत्यादि / स्थावरनाम स्थानशीलं स्थावरं तद्भावः स्थावरत्वं निवर्तयति यह पृथिव्यम्बुवनस्पत्यादिलक्षणं तत् स्थावरनामकर्म / स्थानशीलत्वं तु स्थावरनामकर्मो. दयादेव पृथिव्यम्बुवनस्पतीनाम् / परमार्थतस्तु तत्र स्थावरनामकर्मोदयात् स्थावरत्वं, परिस्पन्दो भवतु मा वाऽभूत् / एवं च तेजोवायवोरपि स्थावरत्वसिद्धिः कर्मोदयादेवेति // भा०-सौभाग्यनिर्वतकं सुभगनाम / टी-सौभाग्येत्यादि / कमनीयः सुभगो-मनसः प्रियस्तद्भावः सौभाग्यं तस्य निर्वतकं-जनकं सुभगनाम। भा०-दौर्भाग्यनिर्वतकं दुर्भगनाम / टी०-दौर्भाग्येत्यादि / सौभाग्यविपरीतलक्षणं दुर्भगनाम / अनिष्टो मनसो योऽप्रियस्तद्भावो दौर्भाग्यम् / यस्य कर्मण उदयादिति // भा०-सौस्वर्यनिर्वर्तकं सुस्वरनाम / दौःस्वयंनिर्वर्तक दुःस्वरनाम / टी.-सौस्वर्येति / येन शब्देनोचरितेनाकर्णितेन च भूयसी प्रीतिरुत्पद्यते तत सुस्वरनाम / तद्विपरीतं दुःस्वरनाम / यत् तु श्रूयमाणमसुखमावहति तद् दुःस्वरनामेति // भा०-शुभभावशोभामाङ्गल्यनिर्वर्तक शुभनाम / तद्विपरीतनिर्वर्तक अशुभनाम / टी-शुभेति / शुभो भावः पूजित उत्तमाङ्गादिस्तजनितः शोभा पूजापुरस्कार। शिरसा पादादिनाऽस्पर्शनं माङ्गल्यमिति पवित्रं तन्निवर्तकं शुभनाम / तद्विपरीतनिर्तिकमशुभनाम / शरीरावयवानामेव हि शुभाशुभता ग्राह्या / यथा पादेन स्पृष्टः क्रुध्यतीति // भा०--सूक्ष्मशरीरनिवर्तकं सूक्ष्मनाम / बादशरीरनिर्वर्तके बादरनाम // टी-सूक्ष्मेति / सूक्ष्म-लक्ष्णं अदृश्यं नियतमेव यस्य कर्मण उदयाद् भवति शरीरं पृथिव्यादीनां केषाञ्चिदेव तत् सूक्ष्मशरीरनाम / बादरशरीरनिर्वर्तकं बादरनाम / बादरं स्थर केपाश्चिद् विद्यावतां जीवानामिव यस्य कर्मण उदयात् स्थूलशरीरता भवति तद् पादरनामेति, न तु चक्षुर्गाद्यतां प्रतीगापेक्ष्य सूक्ष्मवादरमिति // '' पर्याप्तस्थिरादेययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय प्रक्रम्यते भा०- पर्याप्तिः पञ्चविधा / तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिरिति / पर्याप्तिः क्रियापरिसमाप्तिः आत्मनः / 'मनसोऽप्रिय' इति च-पाठः। २'भूयसा ' इति च-पाठः। 3 'रतेति' इति च-पठः /