________________ 158 तत्त्वार्थाधिगमसूत्रम् / अध्यायः 8 टी-प्राणापानेत्यादि / ऊर्ध्वगामी समीरणः प्राणः / अधोगतिरपानः / तौ च मूतौँ पुद्गलात्मकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति / प्राणापानावनन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्गलानां ग्रहणम्-आदानं तस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुच्छ्वासनाम, यस्योदयादुच्छ्वासनिश्वासौ भवतः / विहायोगतिस्वरूपप्रतिपादनायाहभा०-लब्धिशिक्षद्धिप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनाम // टी०-लब्धिशिक्षीत्यादि / विहायः-आकाशः तत्र गतिविहायोगतिः। सा द्विधा-शुभा च अशुभा च / तत्र शस्ता हंस-गज-वृषादीनाम् / अप्रशस्ता तूष्ट्र-टौल-शृगालादीनाम् / तत्र लब्धिर्देवादीनां देवत्वोत्पत्त्य विनाभाविनी / शिक्षया ऋद्धिः शिक्षद्धिः तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्तनप्रभावाद् वाऽऽकाशगमनस्य लब्धिशिक्षचिहेतोर्जन विहायोगतिनामेति // प्रत्येकशरीरनामनिर्धारणार्थमाहभा०-पृथक्शरीरनिर्वर्तक प्रत्येकशरीरनाम // टी०-पृथक्शरीरनिर्वतकमित्यादि / यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपञ्चेन्द्रियविषयम् / यथा प्रत्येकवनस्पतिजीवो मूल-स्कन्ध-शाखा-प्रशाखा-त्वक्-पत्र-पुष्प-फलादिषु पृथक्, शरीरं निवर्तयति तथा द्वीन्द्रियादयोऽपीति / साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे भा०–अनेकजीवसाधारणशरीरनिवर्तकं साधारणशरीरनाम / सभावनिर्वतकं त्रसनाम। टी०-अनेकजीवेत्यादि / अनेकशब्देनानन्तसङ्ख्याग्रहणम् / अनन्तानां जीवानामेकं शरीरं साधारणं किसलयनिगोदवज्रप्रभृति यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि / तदमिन्नं सद् यस्य कर्मण उदयान्निवर्तते तत् साधारणशरीरनाम / तथा त्रसेत्यादि / प्रस्यन्तीति वसा-द्वित्रिचतुःपञ्चेन्द्रियलक्षणाः प्राणिनः, यस्मात् तस्य कर्मण उदयात् तेषु परिस्पन्दोऽञ्जसा लक्ष्यते, स तादृशो गमनादिक्रियाविशेपो यस्य कर्मण उदयाद् भवति तत् प्रसस्वनिर्वतकं त्रसनाम, तदुदये एव गत्यादिक्रिया भवतीति सोऽवधार्यते / गमनं तु तदुदयात स्वभावाच / तदुदयाद् द्वीन्द्रियादीनां स्वभावात् परमाणु-तेजो-वाय्यादीनामिति / कमलिनीखण्डादेर्देशान्तर एव गमनश्रवणाद् व्यभिचार इति चेन अधिष्ठातृव्यन्तरानुभावानुग्रहादिति / 1' मधीतानां ' इति *-पाठः / 2 “विषयाणां ' इति हु-पाठः। 3 'भस्तबस्य' इति इ-पाठः / / 'साधारणनाम' इति ग-पाठः / 5 'नावधार्यते' इति च-पाठः /