________________ सूत्र 12 1 . स्वोपज्ञभाष्य-टीकालङ्कृतम् 57 उपघातनामस्वरूपाख्यानायाहमा०-शरीराङ्गोपाङ्गोपचातकमुपघातनाम / टी-शरीराङ्गोपाङ्गोपघातकमिति / शरीराङ्गानामुपाङ्गानां च यथोक्तानां यस्य कर्मण उदयात् परैरेनेकधोपधातः क्रियते तदुपघातनाम / मतान्तरं वाशब्देन प्रतिपादयति भा०--स्वपराक्रमविजयाद्युपघातजनकं वा॥ टी०-केचिदेवमुपघातजनकं वा केचिदुपघातनाम व्याचक्षते सूरयः पराक्रमःप्राणो वीर्य, स्वो-निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति स्वविजयं चोपहन्ति / विजितेऽप्यन्यस्मिन् नैव विजित इति व्यपदेशहेतुतां प्रतिपद्यत इति / आदिग्रहणादन्यदपि यदुद्भूतं कर्म तत् तस्योदयेनोपहन्यत इति / पराघातस्वरूपं निरूपयतिभा०-परत्रासप्रतिघातादिजनक पराघातनाम // टी-परत्रासेत्यादि / यस्य कर्मण उदयात् . कश्चिद् दर्शनमात्रेणैवोजस्वी वाक्सौष्ठवेनान्यां सभामप्यभिगतः सभ्यानामपि त्रासमापादयति परप्रतिभाप्रतिघातं वा करोति तत् पराघातनाम / आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः // आतपनामनिरूपणायाहभा०-आतपसामर्थ्यजनकमातपनाम // टी-आतपसामर्थ्यजनकमिति / आतपतीत्यातपः / कर्तर्यच / आतप्यते वाऽनेनेति आतपः / पुंसि संज्ञायां घः। तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जैन्यते तदातपनाम | आङो मर्यादावचनत्वात् सहस्रांशुमण्डलपृथिवीकायपरिणाम एव तद् विपच्यते, नान्यत्रेति // उद्दयोतनामस्वरूपप्रतिपादनायाहभा०-प्रकाशसामर्थ्यजनकमुद्दयोतनाम // टी-प्रकाशसामर्थ्यजनकमुहयोतनामेति / उद्दयोतनमुद्दयोत:-प्रकाशोऽनुष्णः खद्योतकादिप्रभावः / सप्तार्चिःसवितृमण्डलासम्भवि, यस्माद रुष्णः स्पर्शो लोहित रूपम् , अतः प्रकाशस्य सामथ्येम्-अतिशयं जनयति यत् तदुद्दयोतनाम / उच्छासनामस्वरूपमाचष्टेभा०-प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम // 1. उत्पत्तेरनेकधा ' इति ङ-पाठः / 2 'प्राणीवीर्याख्यो' इति -पाठः / 3 'कर्तव्यं च ' इति अ-पाठः / ४'इन्येत ' इति -पाठः /