________________ 156 तत्वार्थाधिगममूत्रम् [अध्यायः 8 ध्वयष्टि स्थानीयस्यानुपूर्वीनामकर्मणः / तदभिमुखमानुपूर्वीत्यादि / तदित्यनेनाविवक्षितगतिरभिसम्बध्यते / यस्यां मृत उत्पत्स्यते तस्या अभिमुग्यमनुकूलमानुपूर्व्या प्रतिविशिष्टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमानं प्रतिपादितं, भूयस्तत्प्रापणसमर्थमित्यनेनानुपूर्वोनामकर्मणः कार्यमादर्शयति, तदुदितं तद्गतिप्रापणे समर्थप्रत्यलम् / आनुपूर्वीनामकांग्रेसरं नरकगत्यानुपूर्वीनामादि चतुर्विधं भवति / मतान्तरप्रदर्शनायाहआनव्या- भा०-निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां 'विनिवेशक्रमल्यायां मतान्तरम् नियामकमानुपूर्वीनामेत्यपरे // टी-निर्माणेत्यादि / निर्माणनामकर्म व्याख्यातं प्राक-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनामेति, निर्माणकर्मणा निर्मापितानां घटितानामवयवानामङ्गानां बाहूदरादीनां उपाङ्गानां चाङ्गुलिकर्णनासिकादीनां विनिवेशक्रमनियामक-रचनानिवेशः तस्य क्रमः-परिपाटी उभयपार्श्वतो वाहू कटेरधो जानुनोश्वोपर्युपर्यन्यत्रापि वाच्यः क्रमस्तन्नियामकं-नियमकारि / अनेनाङ्गेनोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनप्रवृद्धाः कथयन्तीति / अगुरुलघुप्रकृतिनिधोरणायाहभा०-अगुरुलघुपरिणामनियामकमगुरुलघुनाम // टी०-अगुरुलध्वित्यादि / परिणामत्रयस्यात्र निषेधो विवक्षितोगुरुत्वलघुत्वगुरुलघुत्वाख्यस्य / यस्य कर्मण उदयात् सर्वजीवानामिह कुञ्जादीनामात्मीयशरीराणि न गुरूणि न लघुनि स्वतः, किंतर्हि ? अगुरुलघुपरिणाममेवावरुन्धन्ति तत् कर्मागुरुलघुशब्देनोच्यते / सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति जैनः सिद्धान्तः। तत्रागुरुलघ्वाख्यो यः परिणामः तस्य नियामकतमेतत् तत्रोद्भूतशक्तिकमभिधत्त इत्यगुरुलघुनाम / सर्वशरीराणि च निश्चयनयवृत्त्या न गुरुकादिव्यपदेशभाञ्जि / व्यवहारनयात् त्वन्योन्यापेक्षया त्रैविध्यमनुरुध्यन्ते / यथोक्तम् " 'निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दव्वं / ववहारओ उ जुज्जइ बायरखंधेसु नन्नेसु // 1 // " -बृहत्कल्पे १.विनिवेशननियामकक्रमानुपूर्वी' इति ग-पाठः। 2 'नुपूर्व्यादि' इति अ-पाठः। 3 'गतिलिङ्गा' इति ङ-पाठः / 4 'किन्तु' इति ङ-पाठः। 5 'कं निधते' इति ग-च-पाठः। 6 छाया निश्चयतः सर्व गुरु सर्व लघु वा न विद्यते द्रव्यम् / व्यवहारस्तु युज्यते बादरस्कन्धेषु नान्येषु // 7 श्लोकार्थमिदं तु दृश्यते विशेषावश्यके (गा० 660) अपि /