________________ सूत्रं 12 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 153 तनुविशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गल विषार च्यते / बचौदारिकादिभेदात् पञ्चधा, परस्परविभिन्नलेप्यकरचनाविशेषवच्छरीरपरिणाम पर ह्युपलक्ष्यते / स चैवंविधः कर्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्चेयः पुरुपयोषिद्गवादिलक्षणो नानाशरीरभेदो नैव सम्भाव्येत, सङ्घातककर्मविशेषाभावात् / कारणानुविधायि च कार्य लोके प्रतीतम् / सङ्घातविशंपादेव हि पुरुषादिशरीरलक्षणो विभागेन व्यपदेशः / अपिशब्दः सम्भावनार्थः / चशब्दोऽवधारणार्थः / सत्येव बन्धननाम्नि न स्याद् विशेषः / यतः सङ्घातविशेषजेनकं प्रचयविशेषात् सङ्घातनाम / सङ्घातविशेषस्य जनकमिति शेषलक्षणा पष्ठीति नास्ति समासप्रतिषेधः / स तु प्रतिपदविहितायाः षष्ठयाः प्रतिषेधः। प्रचयविशेषादिति / प्रचयविशेषाद्धेतोः पुद्गलानां विन्यासः पुरुषस्त्रीविशेषात्मकः / चशब्दोऽवधारणार्थः / यनिमित्तश्च स विन्यासस्तत् सङ्घातनाम / तत्प्रसिद्धोदाहरणेन भावयन्नाहदारुमृत्पिण्डायःपिण्डसङ्घातवदिति / गद्यबन्धनानुलोम्याचात्र द्विः पिण्डग्रहणम् / दारुमृदयःपिण्डवदिति दुरुच्चारं स्यात्, अयोदारुमृत्पिण्डवदिति किं न कृतम् ? अपूतिवचनाः खल्वाचायोः सकृदभिधाय न निवर्तन्ते, दारुपिण्डवत् मृत्पिण्डवत् अयःपिण्डवच्चेति दृष्टान्तत्रयं सुलभत्वात् प्रतिपत्तुश्चातिशायिप्रबोधहेतुत्वात् , दार्ववयवसङ्घातो दारुपिण्डः / एवं मृदवयवसङ्घातो मृत्पिण्डः / तथाऽयोऽवयवानां सङ्घातोऽयःपिण्डः / ते एवात्रौदारिकादिशरीरयोग्यपुद्गलाँश्चेतनेनात्मनाऽऽत्मसात्कृत्य सङ्घातनामकर्मोदयात् परस्परं संहताः सन्तिष्ठन्त इति // संस्थाननामस्वरूपाख्यानायाह. भा०-संस्थाननाम षड्विधम् / तद्यथा-सनचतुरस्रनाम, न्यग्रोधपरिमण्डलनाम, सादिनाम, कुब्जनाम, वामननाम, हुण्डनामेति // टी-संस्थाननाम षविधमित्यादि। संस्थितिः संस्थानम्-आकारविशेषः / तेष्वेव बध्यमानेषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत् संस्थाननाम, षड्विधं-पट्प्रकारम् / तद्यथेत्यनेन षडपि नामग्राहमाचष्टे-समचतुरस्रनामेत्यादि / समं च तचतुरसं चेति समचतुरस्रम् / यतस्तत्र मानोन्मानप्रमाणमन्यूनमनधिकम्, अङ्गोपाङ्गानि चाविकलानि ऊर्ध्व तिर्यक् च तुल्यत्वात् समं चतुरस्रं चाविकलावयवत्वात् स्वाङ्गुलाष्टशतोच्छायाङ्गोपाङ्गयुक्तं, युक्तिनिर्मितलेप्यकवद् वा / न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः 1 ‘जनकावयवा विशेषात् ' इति ङ-पाटः / 2 'स्त्रीशरीरादिकः' इति च-पाठः / 3 'अपूर्तिवचनाः' इति ग---पाठः / 4 'धायनिव' इति ङ-पाठः / 5 'यथा मृत्पिण्डस्तथा' इति ग-पाठः / 6 ‘स एवमौदारिकादि / इति च पाठः / 7 ‘बतेनात्म' इति हु-पाठः / 8 ' साचिनाम' इति घ-पाठः / 9 ' ऊर्ध्वतिर्यवतुल्य , इति ङ-पाठः /