________________ 152 तत्वार्थाधिगममूत्रम् [ अध्यायः 8 टी--अङ्गोपाङ्गेत्यादि / अङ्गान्युपाङ्गानि च यस्य कर्मण उदयाभिर्वर्त्यन्ते तदङ्गोपाङ्गनाम त्रिविधम् औदारिक वैकियका ऽऽहारकभेदात् / तत्राङ्गान्यष्टौ -उरः शिरः पृष्ठमुदरं करौ पादौ च / उपाङ्गानि स्पर्शनमस्तिष्कादीनि / अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारम् / सत्र शिरोद्रव्यमधिकृत्योपाङ्गानि भाष्यकृत् पपाठ----- भा०-- तथा मस्तिष्क कपाल कृकाटिका शङ्खललाट-तालु-कपोल-हनुचिबुक-दशनी छ भ्रू नयन कर्ण नासाशुपाङ्गनामानि शिरसः। एवं सर्वेषा. मङ्गानामुपाङ्गानां नामानि // टी--- तथा मस्तिष्केति / मस्तिष्क मस्तुलुङ्गक शिरोऽङ्गस्यारम्भकोऽवयवः / तथा कपालादयः देशनादयश्च / / ननु च धातुमध्येऽधीतं मस्तिष्कं नाङ्गन प्रत्यङ्गमिति कपालादिवदारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवसेयम् / एवमुरःप्रभृत्यङ्गानामप्येकैकस्य वाच्यान्युपाङ्गनामानि ज्वलनजलानिलवसुधावनस्पतिवजेजीवेषु सम्भवन्ति / मा०---जातिलिङ्गाकृतिव्यवस्थानियामक निर्माणनाम // टी---जातिलिङ्गाकृतीति / जातिरेकेन्द्रियादिलक्षणा पश्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थामाकृतिव्यवस्था च नियमयति यत्, 'लिङ्ग स्त्रियाः पुंसो नपुंसकस्य च यदसाधारणं, आकार आकृतिः- अवयवरचना तां च, यनिर्मापयति निर्माणनाम तदुच्यते / एतदुक्तं भवति-सर्वजीवानामात्मीयात्मीयशरीरावयव विन्यासनियमकारणं निर्माणनाम प्रासादादिनिर्माणकलाकौशलोपेतवर्धकिवदिति // भा०--सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकंवन्धननाम / अन्यथा हि वालुकापुरुषवदनद्धानि शरीराणि स्युरिति // टी-सत्यां प्राप्तावित्यादि / शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तयोग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणामितेष्वपि परस्परमवियोगलक्षणं यदि षन्धन. नाम काष्ठजतुवत् न स्यात् ततो वालुकापुरुषवद् विघटेरन् शरीराणि तदेतेन भाष्येण प्रतिपादितम् / औदारिकभेदाश्च पश्चधा, न च भेदःप्रकृत्यन्तरं शरीरनामकर्मणः / सङ्घातप्रकृतिस्वरूपनिरूपणायेदमाह ---- भा०. बद्धानामपि न सङ्घातविशेषजनकं प्रथयविशेषात् सङ्घातमाम दारुमृस्पिण्डायपिण्डसङ्घातवत् // टी.---बद्धानामपि चेत्यादि / बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन पुद्गलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदारिक 1 स्निग्धादीनि ' इति कु पाठः / 2 'सर्शनादयत्र' इति च-पाठः / ३'लिज त्रिधा पुसो नपुंसकस्म त्रियाच ' इति पाठः / 4 तदनन्तर ' इति हु-पाठः / 5 4. सधातवत् ' इति ध-पाढः /