________________ सूत्रं 12 ] . स्वोपज्ञभाष्य-टीकालङ्कतम् 151 भा०-अप्कायिकजातिनामानेकविधम् / तद्यथा---उपल्लेदा-ऽऽवश्याय नी. हार-हिम-घनोदक शुद्धोदकजातिनामादि // टी०-अप्कायिकजातिनामानेकविधमित्यादि / तद्यथेत्यादिना निर्दिशति / उपक्लेदो हेरतनुकः भूमेनिर्गत्य तृणास्थितः / शेषा गतार्था भेदाः॥ भा०-तेजःकायिकजातिनामानेकविधम् / तद्यथा-अङ्गार-ज्वाला-लाताचिमुर्मुर-शुद्धाग्निजातिनामादि / वायुकायिकजातिनामानेकविधम् / तद्यथा-उत्कलिका-मण्डलिका-झञ्झका-धन-संवर्तकजातिनामादि // . वनस्पतिकायिकजातिनामानेकविधम् / तद्यथा-कन्द-मूल-स्कन्ध-त्वककाष्ठ-पत्र-प्रवाल-पुष्प-फल-गुल्म-गुच्छ-लता-वल्ली-तृण-पर्व-काय-शेवाल-पनक-वलक-कुहनजातिनामादि। एवं डीन्द्रियजातिनामकविधम् / एवं त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजातिनामान्यपि // ___टी०-तेजाकायिकेत्यादि गतार्थम् / द्वि-त्रि चतुः-पञ्चेन्द्रियजातिनामानि शङ्क शुक्तिकाद्युपदेहिकापिपीलिकादिभ्रमरसरघादितिर्यग्मनुष्यादिभेदेन वाच्यानि // शरीरनामोत्तरप्रकृतयः पञ्च / तत्प्रतिपादनायाह भा०-शरीरनाम पञ्चविधम् / तद्यथा-औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तेजसशरीरनाम, कार्मणशरीरनामेति / टी-शरीरनामेत्यादि / असारस्थूलद्रव्यवर्गणानिर्मापितमौदारिकशरीरं, तत्मायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते / विचित्रशक्तिकद्रव्य निर्मापितं वैक्रियं, तद्योग्यपुद्गलादानकारणं यत् कर्म तद् वैक्रियशरीरनामाभिधीयते / कारणे कार्योपचारात् प्रयोजनप्रसाधनायानियत इत्याहारकशरीरम् / शेषं पूर्ववत् / तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षेमं तैजसं शरीरम् / शेषं पूर्ववत् / कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसवनसमर्थमङ्करादीनां बीजमिव कार्मणशरीरम् / इयं चोचरप्रकृतिः शरीरनामकर्मणः पृथगेव कोष्टकाणामुदयभूतादिति // भा०-अङ्गोपाङ्गनाम त्रिविधम् / तद्यथा-औदारिकाङ्गोपाङ्गनाम, वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम / पुनरेकैकमनेकविधम् / तद्यथा अङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, थाहुनाम, शाकम् उद्रनाम, पादनाम / उपाङ्गनामानेकविधम् / तद्यथा-स्पर्शनाम, रसमाम, घाणनाम, चक्षुर्नाम, श्रोत्रनाम // 1 ' हरितनुः ' इति ङ-पाठः / 2 'थन' इति घ-पाठः / 3 'करण' इति च-पाठः / 4 'कम' इति च-पाठः /