________________ 150 तत्वार्थाधिगमसूत्रम् [ अध्यायः 8 भा०-तद्यथा-गतिनाम चतुर्विधम्-नरकगतिनाम, तिर्यग्योनिगतिनाम मनुष्यगतिनाम, देवगतिनाम // टी०-गतिनाम्नः पिण्डप्रकृतेश्चत्वारो भेदाः नरकगतिनामादयः। तत्र यस्य कर्मण उदयानारक इति व्यपदिश्वते तन्नरकगतिनाम / एवं तिर्यग्गतिनामादित्रितयमपि वक्तव्यम् // भा०-जातिनाम्नो मूलभेदाः पञ्च। तद्यथा-एकेन्द्रियजातिनाम, दीन्द्रि यजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनाम // टी-जातिनाम्न इत्यादि / जातिनामेति पिण्डप्रकृतिरेकेन्द्रियादिना जातिपञ्चकापेक्षया / एते च मूलभेदाः पञ्च / तद्यथेत्यादिना निर्दिशति, एकेन्द्रियजातिनामेत्यादि। एक-प्रथममिन्द्रियं जातिः-सामान्यं तदेव नाम,एवंद्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यम् / एकेन्द्रियजातिनामकर्मोदयादेकेन्द्रिय इति व्यपदिश्यते / एकेन्द्रियसंज्ञाव्यपदेशनिमित्त एकेन्द्रियजातिनाम, जातिरिति सामान्येन पृथिव्यादिभेदेष्वन्वितत्वात्, एकेन्द्रियजातिनामान्तरेणकेन्द्रियसंज्ञाया अभाव एव स्यात् // मा०-एकेन्द्रियजातिनामानेकविधम् / तद्यथा-पृथिवीकायिकजातिनाम, अप्कायिकजातिनाम, तेजाकायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति // टी-एकेन्द्रियजातिनामानेकविधमित्यादि / एकेन्द्रियजातयोऽपि पिण्डप्रकृतय एव पृथिवीकायिकादिभेदापेक्षया / तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम पृथिव्येव कायः पृथिवीकायः स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम / पृथिवीकायिकजातिनामोदयात् पृथिवीकायिकव्यपदेशः / एवं शेषाणि // भा०-तत्र पृथिवीकायिकजातिनामानेकविधम् / तद्यथा-शुद्धपृथिवीशर्करा-वालुको-पल-शिला-लवणा-ऽय-स्त्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज-हरिताल-हिङ्गलक-मनःशिला-सस्यका-अन-प्रवालका-ऽभ्रपटा-ऽभ्रवालिकाजातिनामादि गोमेदक-रुचकाङ्क स्फटिक-लोहिताक्ष-जलावभास-वैडूर्य-चन्द्रप्रभ-चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारंगल्या-श्मगर्भ-सौगन्धिक-पुलका-ऽरिष्ट-काञ्जन-मणिजातिनामादि च // टी०-तत्र पृथिवीकायिकेत्यादि / अनेन पुनरपि पृथिवीकायिकजातिनाम्नः पिण्डप्रकृतित्वं दर्शयति / तद्यथेत्यादिना शुद्धपृथिव्यादयो भेदाः प्राग व्याख्याता नानापुद्गलपरिणामाः पृथिवीकायिकव्यपदेशभाज इति // १'नामेति' इति घ-पाठः / 2 सामान्यं पृथि.' इति ग-च-पाठः। 3 'टलान' इति घ-पाठः। 4 'नामानि' इति ग-पाठः / 5 ' स्फुटिक' इति घ-पाठः / 6 ‘गल्लाश्म ' इति घ-पाठः /