________________ सत्रं 12] स्वोपज्ञभाष्य-टीकालङ्कृतम् 149 पञ्चविधम् / अङ्गोपाङ्गनाम त्रिविधम् / निर्माणनामैकधा / संस्थाननाम षोढा / सङ्घारानाम पञ्चविधम् / बन्धननाम पञ्चविधं पञ्चदशविधं वा / संहनननाम पोढा / गत्यादिनामकर्म- स्पर्शरगन्धवर्णनामकैकविधम् / आनुपूर्वीनाम चतुर्धा / अगुरुलघुनामणामघान्तरभेद ___ कथा / उपघातपराघातातपोद्योतोच्छ्रासनामान्येकैक विधानि / विहायोसख्या गतिनाम द्विधा / प्रत्येकशरीरसाधारणशरीरत्रसस्थावरसुभगदुर्भगसुस्वरदुःस्वरशुभाशुभसूक्ष्मबादरपर्याप्तापर्याप्तस्थिरास्थिरादेयानादेययशोऽयशस्तीर्थङ्करनामान्येकैकप्रकाराण्येव / एवमेता उत्तरप्रकृतयो नामकर्मणः सप्तषष्टिः / अत्र च बन्धनसङ्घातनामनी शरीरनामान्तभूते एव, अतः शरीरविषयत्वादेव नोत्तरप्रकृतिः। पृथक्सूत्रे यदुपादानं पार्थक्येन तत् तयोः स्वरूपप्ररूपणार्थमिति // भा०-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाभ सङ्घातनाम संस्थाननाम संहनननाम स्पर्शनामरसनाम गन्धनाम वर्णेनाम आनुप्निाम अगुमलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम / प्रत्येकशरीरादीनां सेतराणां नामानि / तद्यथा-प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुभेगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम यादरनाम पयोप्तनाम अपयोप्सनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थकरनाम इत्येतद् द्विचत्वारिंशद्रिधं मूलभेदतो नामकर्म भवति / उत्तरनामानेकविधम् // __टी०-गतिनामेत्यादि भाष्यम् / तत्र गतिनामेत्येवमादिना भाष्येण इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवतीत्येवमन्तेन पिण्डप्रकृतिमात्रमाख्यायते / गतिनाम / नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः। आनुपूर्व्यनाम, अन्ये .... पठन्त्यानुपूर्वीनाम, ततश्च प्रथमपाठे सूत्रमेवम्-आनुपूर्व्यागुरुलघूपघात इति, सूत्रपाठभेदः इतरत्र आनुपूयेगुरुलघूपधात इति / प्रत्येकशरीरादीनां दशानां सेतराणामिति-सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि-अभिधानानि वक्ष्यमाणानि विज्ञेयानि / अथवा प्रत्येकशरीरादीनां पूर्वपदानां सामानाधिकरण्यविवक्षा. नामानीति व्यक्तिनिवक्षातो नामशब्द उत्तरपदं भवतीति / तद्यथेत्यादिनोद्देशः सामानाधिकरण्येन, प्रत्येकशरीरनामादिकं अन्ते तीर्थकरनाम प्रकृष्टत्वात् / इतिशब्दः पिण्डप्रकृतीयत्ताप्रदर्शनार्थः। एतदिति नाम यथोक्तं द्विचत्वारिंशद्भेदं भवति सह बन्धनसवातनामभ्याम् / आसां पिण्डप्रकृतीनां सम्प्रति भेदप्रतिपत्तये वभाषे-उत्तरनामानेकविधमिति / उत्तरप्रकृतिनामेत्यर्थः / पिण्डप्रकृतिभेद इतियावत् / तद्यथेत्यादिना निर्दिशति 1 ' सघात. पा शिविधं वा ' इति पाठो न विद्यते च-प्रतौ / 2 मेतेन' इति च-पाठः / 3 'पृथगपाठि' इति ग-पाठः /