________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् 147 भा०-तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति / तयथा-लाक्षारागसदृशः, कर्दमरागसदृशः, खजनरागसहशः, हरिद्राराग. सहश इति / अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते / / टी०-लाक्षारागसदृश इत्यादि / अनन्तानुबन्ध्यादयः क्रमेण योज्याः / शेपं गतार्थम् // __ भा०-एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो क्रोधादीनां सच- भवन्ति / तद्यथा-क्षमा क्रोधस्य, मार्दवं मानस्य, आजवं रणोपायाः मायायाः, सन्तोषो लोभस्यति // 10 // टी--एषां क्रोधादीनामित्यादि / प्रकृतानुपयोगित्वादसम्बद्ध इवायं लक्ष्यते ग्रन्थः / मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमादय इति कः प्रस्तावः ? / उच्यते-मोहनीयप्रधानानि हि कर्माणि, सर्वदेशोपघातद्वारेण जन्तोनरकादिभवप्रपञ्चप्रापणे विज़म्भन्ते / 'मोहस्तत्र तावत् कपायजनितः / कपायवशाद्धि बन्धस्थितिविशेषः सर्वदुःखावाप्तिश्च / यथोक्तम् ( उपदेशमालायाम् ) "ज अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणमि / तं जाण कसायाणं वुढिक्खयहेउयं सव्वं // 1 // " अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा / भाष्यं गतार्थप्रायम् / प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः / भूतशब्द उपमानार्थः / शत्रव इवोच्छेदनसाधम्योत् / एतदेव स्पष्टयति-प्रतिघातहेतवो भवन्तीति / अत्र च मिथ्यादर्शनमाद्यकषायाश्च द्वादश सघातिन्यः प्रकृतयः सङ्घलन नोकषायास्तु देशघातिन्यः // ननु च सूचनात् मूत्रमिति लघु विधेयं सूत्रलाघव सूत्रम् / तचैवं भवति-दर्शनचारित्रमोहनीयकषायनोकपायवेदनीयाख्या परामर्शः द्वित्रिषोडशनवमेदा इत्येव विवक्षितार्थसंग्रहः स्यात् / तत्रेदमुक्तम्" दुर्व्याख्यानो गरीयांश्च, मोहो भवति बन्धनः / न तत्र लाघवादिष्टं, सूत्रकारेण दुवेचम् // " इति // 10 // सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यभिधित्सुराह-~ सूत्रम्--नारक-तैर्यग्योन-मानुष-दैवानि // 8-11 // १.मोहतन्त्रता च कापायजनिता' इति च-पाठः / 2 छाया-- यत् अतिदुःखं लोके यच सुखमुत्तमं त्रिभुवनेऽपि / तद्विद्धि कषायाणां वृद्धिक्षयहेतुकं सर्वम् //