________________ सूत्रं 10] . स्वोपज्ञभाष्य टीकालङ्कृतम् 145 रोहति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सर वाऽवतिष्ठते स वालुकाराजिसदृशो नाम / तादृशं क्रोधमनुसृता मनुष्येषूपपत्ति प्राप्नुवन्ति // टी-वालुकाराजिसदृशो नामेत्यादि सुज्ञानम् / जघन्येनाहोरात्रं उत्कर्षण संवत्सरपरिणामोऽपीति / शेषं गतार्थम् // __ भा०-उदकराजिसदृशो नाम / यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यतमेन हेतुना राजिरुत्पन्ना द्रवत्वापामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधो विदषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसदृशः / तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति // टी०-उदकराजिसदृशो नामेत्यादि प्रायः सुज्ञानम् / विदुष इति क्रोधपरिणामाभिज्ञस्य / प्रत्यवमर्श:-पश्चात्तापः हाँ दुहुकयमित्यादिकः / शेषं सुज्ञानम् // भा०—येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति // टी०-येषामित्यादि / अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान्मुक्तिप्राप्तिरवश्यंभाविनीति / सम्प्रति मानचातुर्विध्यप्रदर्शनायाहमानशब्दस्य स्थ भा०-मानः स्तम्भः गर्वः उत्सेकः अहङ्कारः दर्पः मदः स्मय पर्यायाः इत्यनर्थान्तरम् // टी०-मान इत्यादि। सर्वदाऽऽत्मपूजाकाक्षित्वात् मानः। स्तम्भनात् स्तम्भः अवनतेरभावात् / गर्यो जात्यादिः। उत्सेको ज्ञानादिभिराधिक्येऽभिमान आत्मनः / अहङ्कारोऽ. हमेव रूपसौभाग्यसम्पन्न इति / दुर्पो बलकृतः / मद्यादिमदवदनालापदर्शनात् मदः। परापराधसहनप्रायत्वात् स्मयः / सर्व एते मानविशेषा इत्यतोऽनर्थान्तरमिति / क्रोधस्येवास्यापि तीव्रादिभावप्रदर्शनायाह भा०-तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति / तद्यथा-शैलस्तम्भसदृशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, हॅणस्तम्भसदृश इति / एषामुपसंहारो निगमनं च क्रोधनिदर्शनाख्यातम् // टी-तस्यास्येत्यादि / तस्येति पूर्वोदिष्टस्य / अस्येति पर्यायभेदेन निर्दिष्टस्य / आदिग्रहणात् मध्यो मन्दश्च भावः-आत्मनः परिणतिविशेषः / अनन्तानुबन्ध्यादिषु क्रमेण शैलस्तम्भसदृशेत्याधुदाहरणानि योज्यानि / एषामित्यादिना निर्दिशति / उपसंहार उप १'कोधः' इत्यधिको घ-पाठः / 2 'निमित्तो यस्य' इति घ-पाठः / 3 'मार्शिनो' इति घ-पाठः। 'णामै|दस्य ' इति ङ-पाठः / 5 'हा दुकय ' इति -पाठः। 6 'प्राप्नुवन्ति ' इति घ-पाठः। 7 'लतास्तम्भ' इति घ-पाठ.।