________________ तत्त्वार्थाधिगमभूत्रम् (अध्यायः 8 राजिरुद्धता वर्षास्तवश्यंतया सा निधनमायाति / क्रोधोऽप्येवमुत्पन्नो वर्षाभ्यन्तरे प्रशाम्यतीति॥ प्रत्याख्यासावरपास्तु वालुकाराजिमशः। वालुकायां हि राजिरुत्पन्ना प्रकर्षतश्चतुर्मासाभ्यन्तरे भूयः सन्धते / माधोऽप्येवं प्रत्याख्यानावरणश्चातुर्मासाभ्यन्तरे नियमेनोपशाम्यतीति / संज्वलनक्रोधाग्निः समुद्भूतः पाक्षिकप्रतिक्रमणकाले प्रकर्पतो विध्यायतीति उदकराजिसदृश इति सनाख्यायते / अस्य च उदकगजिसदृशात् पक्षमात्रकालसमूचकं विज्ञेयम् / भा०---तत्र पर्वताजिसहशो नाम। यथा प्रयोगविस्रसामिश्रकाणामन्यतभेन हेतुना पर्वते राजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतन हेतुना यस्योत्पन्नः क्रोधः आ मरणान्न अपगच्छति जात्यन्तरानुबन्धी निरनुनयस्तीव्रानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः / तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति // . . टी०--तत्र पर्वतराजिसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति / प्रयोगः पुरुषव्यापारः। विस्त्रसा-स्वभावः / मिश्रकरणादुभयपरिग्रहः पुरुषव्यापारस्वभावाभ्यामिति / एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः / सम्प्रति क्रोधोत्पत्तेनिमित्तमाख्याति-इटावियोजनादनिष्टार्थसंयोजनादभिलषितालाभादित्यादीनां कारणानामन्यतमेन हेतुना / यस्योत्पन्नः क्रोध इत्यादि / भवान्तरमप्यनुबध्नाति / निरनुनय इति / अनुनयः परचाटुकरणादिक्रिया तदभावानिरनुनयः / अप्रत्यवमर्श इति / अविद्यमानपश्चात्तापपरिणामः / शेषं गतार्थम् / भा--भूमिराजिसदृशो नाम | यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया धारवभिहताया राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाऽष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकवर्षस्थायी दुरनुनयो भवति, स भूमिराजिसदृशः / तादृशं क्रोधमनुमृताः तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति // टी०-भूमिराजिसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते, आत्तस्नेहाया इति गृहीतापीतस्नेहायाः, वायुना चाभ्याहताया इत्यनेकेकारणतां भूमिराजेरावेदयते / जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति / एवं यथोक्तेत्यादिना दृष्टान्तेन दार्शन्तिकमर्थं सभीकरोतीति / शेषं सुज्ञानम् // भा०-वालुकाराजिसदृशो नाम। यथा वालुकायां काष्ठ-शलाका-शर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वायवीरणाद्यपेक्षसंरोहा अर्गम् मासस्य सं. 1 विध्यायतीति' इति ग-च-पाठः। 2 ‘सादृश्यं इति ग-पाठः / 3 'पर्वतराजि.' इति घ-पाठः। 4 'व्ययं गच्छति' इति घ-पाठः। ५मृता' इति ग-पाठः। 'प्रयोगः व्यापारः ' इति च-पाठः / पालति उ-पाठः। 8 'विधस्थानीयो' इति घ-पाठः। 'के कारण ' इति उ-च-पाठः /