________________ सुत्रं 10 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 143 ___टी०-अनन्तानुबन्धीत्यादि / अनन्तानुबन्धिकषायोदयः सम्यग्दर्शनमुपहन्ति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः / एतदेव स्पण्यति-तस्योदयाद्धि सम्यग्दर्शनं नोत्तद्यते प्रागवाप्तमपिप्रतिपततीति / अप्रत्याख्यानेत्यादि / सर्वदेशलक्षणाया विरतेरभावः / प्रत्याख्यानेत्यादि देशविरतिर्भवति / उत्तमचारित्रं सर्वस्मात् प्राणातिपाताद् विरमामीत्येवंरूपं तस्य लाभो न भवतीति / तुशब्दोऽवधारणार्थः। न जातुचिदेव भवतीति / संज्वलनेत्यादि। संज्वलनकोयोदये त्वकषायचारित्रलाभो नास्ति / पूर्वोद्दिष्टसामायिकेभ्योऽनन्तरमथाख्यातः क्रियाविशेषः / अथाख्यातचारित्रं साक्षादनन्तरकारणं मुक्तेरिति / यथाख्यातचारित्रं वा, येन वा प्रकारेण यथा भगवद्भिराख्यातमकषायं चारित्रं भवतीति / सर्वथा कषायाः संसारे हिण्डयन्ति जीवमिति काका प्रतिपादयति / यतस्तेषामुदये प्रतिविशिष्टज्ञानक्रियावाप्तिरेव न समस्तीति / उपशान्तक्षीणकषायस्य सतो हि यथाख्यातमिष्यते / तत्राप्युपशान्तकषायी कदाचित्पातेऽपि विशुद्धिस्थानात् कुतश्चिन्न शक्यते / क्षीणकषायस्य तु नास्ति प्रतिपातः / शास्त्रे पर्यायशब्दैरपि क्रोधादिकषायाणां व्यवहारोऽस्तीत्येतत् प्रदर्शनम्जोधस्य पर्यायाः - भा०-क्रोधः कोपोरोषो वेषो भण्डनं भाम इत्यनान्तरम्। तभावानुसारीणि तस्या(?)स्य क्रोधस्य तीव्र-मध्य-विमध्य-मन्दभावाश्रितानि निदनिदर्शनानि च र्शनानि भवन्ति / टी-क्रोध इत्यादि / क्रोधनं क्रोधोऽप्रीतिः / कोपनं कोपः पूर्वावस्थातोऽन्यथा परिणामः / रोपणं रोषः तत्परिणामेनारूषितत्वादात्मनः / द्वेषणं द्वेषः तत्परिणामस्य वचनद्वारेण प्रकाशनात् निर्देशनात् / भण्डनं कलहः / भाम इति क्रोधविशेष ईष्योलक्षणः / एवमादयः शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनान्तरमेवेति // भा०-तद्यथा-पर्वतराजिसदृशो भूमिराजिसदृशो वालुकाराजिसदृश उदकराजिसदृश इति / टी०-अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादिभावदर्शनार्थं निदर्शना. न्याह भाष्यकारः-तद्यथेत्यादिना / चतुर्णामपि क्रमेणानन्तानुबन्ध्य-प्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनानां क्रोध-मान माया-लोभानामेकैकस्य चातुर्विध्यं दर्शयति-पर्वतराजिसहश इत्यादि / पर्वतराज्या सदृशः। पर्वतः पाषाणपुञ्जस्तदेकदेशोऽप्युपचाराच्छिलादिविभागः पर्वतः, तत्र राजिः-भिदा पर्वतराजिः तया सदृशः पर्वतराजिसदृशः / शिलायां राजिरुत्पमा यावत् शिलारूपं तावदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुवन्धी क्रोध उत्पन्नो भवापेक्षया यावत् तत्र भवे जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच भूयसा नरकमेति / अप्रत्याख्यानस्तु भूमिराजिसदृशः संवत्सरमात्रकालानुबन्धी / भूमौ हि 'प्रागेतनमपि ' इति ङ-पाठः। 2 'कषायत्रये' इति कु-पाठः / 3 'नास्तीत्यतः प्रदर्शनम्' इति च-पाठः। ४'पेक्षया तत्र' इति च-पाठः /