________________ 142 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 8 तद्यथेत्यनेन तत्रापि नोकषायान् स्वरूपेणाख्यातुमुपक्रमते-तत्र हास्यनोकपायमो. होदयात् सनिमित्तमनिमित्तं वा हसति स्मयते रङ्गावतीर्णनटवत् / रतिमोहोदयाद् बाह्याभ्यन्तरेषु बस्तुषु प्रीतिः आसक्तिः / इप्टेषु च शब्दादि विषयेषु / अरतिमोहोदयादेतेष्वेवाप्रीतिररतिः। शोकमोहोदयात् परिदेवते हन्ति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोठति भुवः पीठ इत्यादि। भयमोहोदयात् त्रस्यत्युद्विजते वेपत इत्यादि / जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि / पुरुषवेदमोहोदयात् अनेकाकारासु स्त्रीष्वभिलाषः आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा सङ्कल्पजास्वपीत्यादि। स्त्रीवेदमोहोदयात् नानाकारेषु पुषेष्वभिलापः, सङ्कल्पजेषु चेत्यादि / नपुंसकवेदमोहो बहुरूपः, तदुदयात् कस्यचित् स्त्रीपुरुपद्वयविषयोऽप्यभिलाषः किल प्रादुर्भवति, धातुद्वयोदये मार्जितादिद्रव्याभिलाषवत्, कस्यचित् पुरुषेष्वेवाभिलाषः, सङ्कल्पजविषये चानेकरूप इत्यादि। इतिकरणो नोकषायेयत्ताप्रदर्शनार्थः। उक्तमेवमेतन्नोकषायवेदनीयं नवप्रकारम् / एषां पुरुषादिवेदानां त्रयाणामपि तीव्रादिपरिणामसंसिद्धयर्थ दृष्टान्तानाविश्चिकीर्षुराह____ भा०-तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्तीति / एवं मोहनीयमष्टाविंशतिभेदं भवति // ___टी-पुरुषवेदादीनामिति क्रमनियममाचष्टे / तृणादयः कृतद्वन्द्वाः प्रत्येकमग्निशब्देन सहाभिसम्बध्यन्ते / निदर्शनानि निदर्यन्त इति दृष्टान्ता भवन्ति / एतानि च कृतसनिवेशक्रमात् / इतिशब्दोऽन्यानेकनिदर्शनप्रतिपत्त्यर्थः / तत्र पुरुषवेदमोहानेभृशं ज्वलतः समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते, समासादिततृणपुलकस्येव नातीप स्थास्नुरनुबन्धः। स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः सम्भाषणस्पर्शनेन्धनाभिवर्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव / नपुंसकवेदमहामोहसप्तार्चिपस्तु समासादितोदयस्य महानगरस्य दाहदहनतुल्यस्य करीषकृशानोरिवान्तर्विजम्भमाणदीप्ततर. कणनिकरस्य बहुतरकालेऽस्य प्रशमो भवति / सम्प्रत्युपसंहरति-एवमित्यादि। उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदलक्षणेनाष्टाविंशतिभेद मोहनीयमुक्तम् // संम्प्रत्य-न्तानुबन्ध्यादिकपायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क कि लभते किं वा न लभत इति प्रतिपादयिषुराह भा०-अनन्तानुबन्धी सम्यग्दर्शनोपवाती / तस्योदयात् अनन्तानुबन्ध्यादि- 1. सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्नमपि च प्रतिपतति / अप्रत्या . कषायाणामुदये सभ्यग्दर्शनादीना. . ख्यानकषायोदयाद् विरतिनं भवति / प्रत्याख्यानावरणकषा योदयाद् विरताविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति। संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवति // 1 'कारीष' इति च-पाठः / 2 'साम्प्रतम् ' इति ङ-पाठः / 3 'दयाद्धि' इति घ-पाठः / मुपधातः