________________ पूर्व 10] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 141 - प्रत्याख्यानपरिणामजन्मविघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्यास्यानस्येति वाक्यार्थः / तथाचाहुः गृज्याः ( श्रीजिनभद्रगणिक्षमाश्रमणाः ) 'णासंतस्सावरणं ण सोऽभव्वाइविरमणपसंगा। पञ्चक्खाणावरणा तम्हा तस्संभवावरणा // 1 // उदए विरइपरिणई न होइ जेसिं खयाइओ होइ / पञ्चक्खाणावरणात इह जहा केवलावरणं // 2 // " -विशेषावश्यके ( गा० 1236-1237) तदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः / यथाऽऽह " श्रावकधर्मों द्वादशभेदः संजायते ततस्तस्य / . पञ्चत्रिचतुःसंख्यावतगुणशिक्षामयः शुद्धः // 1 // " संज्वलनकषायस्वरूपोपपादनायाह-संज्वलनकषाय इति / समस्तपापस्थानविरतिमाजमपि यति दुःसहपरिषहसंपाते युगपत् संज्वलयन्तीति संज्वलनाः / यथाऽऽह "संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि / तसात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते // 1 // " इतिशब्दः कषायवेदनीयस्येयत्तामाह / एकश इति / एकैकस्य अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनकषायस्य क्रोधादयो भेदाश्चत्वार इति / तत्राप्रत्याख्यानक्रोधाधुदाहरणानि भूराज्यस्थिमेषशृङ्गकर्दमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेर्जलराजितिनिशलवालेहहरिद्रारागाः / एवमेते षोडशभेदाः कषायवेदनीयस्येति // प्रस्तावप्राप्त नोकषायवेदनीयमुच्यते भा०-नोकषायवेदनीयं नवभेदम् / तद्यथा-हास्यं, रतिः, अरतिः, शोकः, भर्य, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् / / टी-नोकषायवेदनीयं नवभेदमिति / कषायैकदेशत्वात् कषायविशेषत्वाद् वा नोकषाया हास्यादयः / मिश्रार्थो वा नोशब्दः / कषायसहकृता एते स्वकार्यनिवर्तनप्रत्यलाः, न झमीषां पृथक सामर्थ्यमस्ति / यद्दोषश्च यः कषायस्तत्सहचारिण एतेऽपि तत्तदोषा एव भवन्ति / एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपपातकारित्वात् तत्तुल्यतयैव ग्राह्याः / तथाऽन्येनाप्यवाचि " कषायसहवर्तित्वात् , कषायप्रेरणादपि / हास्यादिनवकस्योक्ता, नोकषायकषायता // 1 // " 1 छाया नासत आवरणं न सतोऽभव्यादिविरमणप्रसमात् / प्रत्याख्यानावरणाः ततस्तत्सम्भवावरणाः // उदये विरतिपरिणतिः न भवति येषां क्षयादितो भवति / प्रत्याख्यानावरणास्त इह यथा केवलावरणम् / / १'तृणशळाकाव' इति ग-पाठः /