________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 8 मा०-तत्र कषायवेदनीयाख्यः षोडशभेदः / तद्यथा-अनन्तानुबन्धी ऋोधो मानो माया लोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडशभेदाः // टी-तत्रेत्यादि / तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः। तद्यथेत्यनेन भेदानावेदयते-अनन्तानुबन्धी क्रोध इत्यादि / अनन्तः संसारो नारकं-तियङ्-मनुज देवजन्मजरामरणपरम्परालक्षणः तदनुबन्धादनन्तानुबन्धिनः संयोजनाच क्रोध-मान-माया-लोभाः। तत्र क्रोधोऽप्रीतिलक्षणः / मानो गर्वः। माया शाख्यम् / लोभो गायं तृष्णेत्यनर्थान्तरम् / आह च "संयोजयन्ति यनग्मनन्तसङ्ख्यैर्भवैः कषायास्ते / संयोजनतानन्ताऽनुवन्धिता वाऽप्यतस्तेषाम् // 1 // अनन्तानुगन्धिनां च तावत् पर्वतराजिशैलस्तम्भधनवंशमूलकृमिलाक्षारागोदाहरणानि, एवमप्रत्याख्यानावरणकषायश्चतुर्धा क्रोधादिभेदेनेत्यति दिश्यते / प्रत्याख्यानं द्विविधं-देशविरतिलक्षणं सबविरतिलक्षणं च / तत्र देशविरतिलक्षणमल्पं तदावरणं कषायोप्रत्याख्यानावरणकषायः, सामर्थ्यात् अपिशब्दः समुच्चयार्थी लभ्यते / ये स्वल्पमावृण्वन्ति प्रत्याख्यानं ते सर्वविरतिलक्षणमाकृण्वन्त्येवेति नास्ति चित्रम् / कषाय इति जातिविवक्षायामेकवचननिर्देशः / आह च "आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य / तेनाप्रत्याख्यानावरणास्ते निर्विशेषोक्त्या // 1 // " नञ् हि सोऽल्पार्थः, उपमार्थो वा नञ्, प्रत्याख्यानावरणवदप्रत्याख्यानावरणः / यथोक्तम् "प्रत्याख्यानावरणसंदृक्त्वाद् वा तत् तथा भवति सिद्धम् / तर्वब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः // 1 // " एषामुदये सम्यक्त्वलाभः सर्वदेश विरतिलक्षणं प्रत्याख्यानं नास्ति / प्रत्याख्यानावरकषाय इति तथैवातिदेशः / प्रत्याख्यानशब्देनात्र सर्वविरतिपरिग्रहः तदावरणः। प्रतिशब्दः प्रतिषेधवचनः / प्रतिषेधस्याख्यानं प्रकाशनमाचार्यादिसन्निधौ भावतः ‘सर्वान् प्राणिनो न हन्मि यावज्जीवं' इत्यादि प्रत्याख्यानं, तदेवंप्रकारं स्थगयन्तीति प्रत्याख्यानावरणाः / यथाऽऽह " सर्वप्र-याख्यानं येनावृण्वन्ति तदभिलपतोऽपि / तेन प्रत्याख्यानावरणास्ते निर्विशेषोत्या // 1 // " 1 'कषायप्रत्याख्यानकषायसंज्वलनकषायवेदनायं चति सषायवेदना याल्यः षोडशभेदः' इति क-ग-पाठः। 2 अनेन सम्भाव्यते यदुतासीत् कश्चित् कर्मविषयकग्रन्थो योऽधुना नोपलभ्यते। 3 'सम्यक्त्वाद् वा' इति ग-पादचिन्तनीयः। ४'तत्तब्राह्मवचने' इति च-पाठः।