________________ सूत्रं 10 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 139 - सम्प्रति सम्यक्त्ववेदनीयं शुद्धपुद्गलप्रत्ययस्तत्वार्थश्रद्धानपरिणाम आत्मनः / स चौपशमिकादिभेदेन पञ्चधा प्राग् व्याख्यातः औपशमिक-सास्वादन-वेदक-क्षायोपशमिक-क्षायिका सम्यक्त्व- ख्यः। तत्रोपशान्ते दर्शनमोहसप्तके भवत्यौपशमिकं सदैव सम्यक्त्व प्रकारप्रपञ्चः मन्तर्मुहूर्तकालावच्छिन्नं, उपशमसम्यग्दर्शनकाले संयोजना उदयमावं षण्णामावलिकानामन्ते कस्यचिद् यान्ति / उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबन्धिभिः / यथाऽऽह "संयोजनोदयश्चेत् स्यादास्ययेतना(१) सम्यक्त्वम् / तस्य तु विशुद्धथतस्तदभावात् सम्यक्त्वमनवद्यम् // 1 // " क्षायोपशमिकसम्यक्त्वपुद्गलचरमग्रासानुभवकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषदर्शनमोहक्षये भवति सम्यक्त्वम् / न च विशुद्धपुद्गलक्षये तत्वार्थश्रद्धानलक्षणस्य परिणामस्याभावः / यथाऽऽह "प्रक्षीणे तर्हि सम्यक्त्वे, सम्यग्दृष्टिः कथं मता?। क्षयो द्रव्यस्य तत्रेष्टः, परिणामस्य न क्षयः॥१॥" सम्यग्मिथ्यात्ववेदनीयमधुनोच्यते / प्रथमतः सम्यक्त्वमुत्पादयन् करणत्रयं विधायोपशमसम्यत्त प्रतिपद्यते / ततो मिथ्यात्वदलिकं त्रिपुञ्जीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन / यथाऽऽह "सम्यक्त्वगुणेन ततो विशोधयति कर्म तच मिथ्यात्वम् / ..' यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः // 1 // " / सम्यग्मिथ्यात्वं च तद्वेदनीयं चेति, एवं पूर्वयोरपि द्रष्टव्यम् / इतिशब्दो दर्शनमोहनीयेयत्ताप्रतिपत्तये / दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद भा०-चारित्रमोहनीयाख्यो द्विविधः। कषायवेदनीयं नोकषायवेदनीयं चेति / टी०-चारित्रमोहनीयाख्यो द्विविध इत्यादि / द्विविकल्पश्चारित्रमोहप्रकृतिबन्धः / कषायवेदॆनीयं नोकषायवेदनीयं चेति / एतावद्भेदं मूलतश्चारित्रमोहनीयम् / यथाक्रम तत्स्वरूपाख्यानायाह २'मुचारयन्' इति ग-पाठः। 3-4 'दनीयो १'जनोदयातस्यावस्योद्यतना०' इति छ-पाठः। कषायवेदनीयश्चेति' इति ग-पाठः /