________________ सूत्र ) स्वोपज्ञभाष्य-टीकालङ्कृतम् 137 किमुत सर्वप्रत्याख्यानमिति / मूलगुणप्रत्याख्यानविघातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः / स्वल्पनिमित्तप्राप्तावपि युगपत् संज्वलनाः संज्वलनाः क्रोधादयः / एषां चानन्ता नुबन्ध्यादीनामेकैकस्य क्रोध-मान-माया-लोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संज्वलनाश्चेति / एवमेते षोडशभेदाः कषायवेदनीयाः सूचिताः / हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम् / तदष्टाविंशतिविधमावेदितं मोहनीय कर्म सूत्रेणेति / अधुना भाष्यमनुस्रियते ___ भा०–त्रि द्वि-षोडश-नवभेदा यथाक्रमम् / मोहनीयबन्धो विविधःदर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च / तत्र दर्शनमोहनीयाख्यस्त्रिभेदः / तद्यथा-मिथ्यात्ववेदनीयं, सम्यक्त्ववेदनीयं, सम्पग्मिथ्यात्ववेदनीयमिति // टी-त्रि-द्वि-षोडश-नवभेदा यथाक्रममित्यादि / उक्तार्थ चैत भाष्यम् / दर्शनचारित्र-कषाय-नोकपायमोहनीयप्रकृतयः क्रमेण त्रि-द्वि-पोडश-नवभेदाः। अनेनाष्टाविंशतिवि धता प्रतिपादिता मोहनीयस्य / मोहनीयबन्ध इत्यादि। यथोक्त कारकप्रसिद्धो मोह शब्दो द्विप्रकारो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च / तत्त्वार्थश्रद्धानं दर्शनं तन्मोहनाद् दर्शनमोहनीयम् / प्राणातिपातादि वरतिश्चारित्रं तन्मोहनाचारित्रमोहनीयम् / तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि / तत्र तयोर्दर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रक तिबन्धस्तावदुच्यते। तद्यथेत्यादिना तमेव दर्शयति-मिथ्यात्ववेदनीयदर्शनमोहनीयस्य त्रैविध्येऽपि बन्धैकता 4.मित्यादि / तत्र दर्शनमोहनीयत्रैविध्ये सत्यपि बन्धो भवत्येकविध एव "तत्वार्थाश्रद्धानलक्षणमिथ्यात्ववेदनीयस्य, न सम्यग्मोहनीयस्य, नापि सम्यग्मिथ्यात्वमोहनीयस्येति / यतो मिथ्यात्वपुद्गला एवैकरूपा बद्धाः सन्तः कर्नाऽऽत्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणाम त्याजिताः सम्यगमिथ्यात्वपरिणति वा प्रापिताः सम्यक्त्व(सम्बग्मिथ्यात्व)व्यपदेशभाजो भवन्ती ते // न त्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु सम्यग्मिथ्यात्वव्यपदेशभाज इति / यथाऽऽह " मिथ्यात्वस्य ह्युदये, जीवो विपरीतदर्शनो भवति / न च तस्मै सद्धर्मः, स्वदते पित्तोदये धृतवत् // 1 // " यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः / ततश्च "सम्यक्त्वगुणेन ततो विशोधयति कर्म तच्च मिथ्यात्वम् / यद्वच्छ ।त्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः // 1 // १'किं पुनः सवति ङ-पाठः। 2 'एवमतत् षोडशभेदं कषायवेदनायं सूचित' इति च-पाठः / 3 'स्वादु च ' इति उपाठः, 'स्वदवे' इति च-पाटः। 4 ' छगणप्रमुखैः' इति ग-पाठः। 18