________________ तत्वार्थाधिगमसूत्रम् [ अध्यापः 8 भाल-सवेद्यमसद्धेद्यं च वेदनीयं विभेदं भवति // 9 // टी०-सदेद्यमित्यादि / सच्छब्दः प्राशस्त्ये / प्रशंसा चात्मनोऽभिमतविषयत्वम् / असच्छन्दस्तद्वैपरीत्ये / चशब्द उत्तरप्रकृतिसमुचितौ / वेदनीयं-वेद्यं द्विभेदं द्विप्रकार भवति // 9 // सम्प्रति चतुर्थमूलप्रकृतेर्मोहनीयनाम्नः उत्तरप्रकृतिप्रपञ्चाख्यानायाह सूत्रम्-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः। सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायो अनमोहनीयस्या- न्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाशाविंशतिरुत्तर- श्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुप्रकृतयः गुप्साः स्त्रीनपुंसकवेदाः॥ 8-10 // टी-मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः सङ्ग्रहभेदरूपाः सूत्रेणैव निर्दिष्टाः / मोहनीयशब्दः प्रत्येकमभिसम्बध्यते / दर्शनमोहनीयं चारित्रमोहनीयमिति सङ्ग्रहेण निर्देशः / पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया सङ्ग्रहेणैव निर्दिष्टम् / तद्भेदाख्यानं तु कषायवेदनीयं नोकषायवेदनीयमिति / दर्शनमोहनीय इत्यादिका आख्या यासापुत्तरप्रकृतीनो वास्तथा निर्दिष्टाः। तासां भेदप्रतिपादनार्थमाह-त्रिद्विषोडशनवभेदा इति / निर्देशकमेगैव ज्यादयो भेदा यास तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्रमोहनीयोसरप्रकृतिद्धिभेदा, तौ चामू विकल्पो , कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति / एवमिति एवमेता उत्तरप्रकृतयोऽष्टाविंशतिः सूचिताः मोहनीयप्रकृतेः। ____ अधुना तु व्यादिभेदान् सूत्रेणैव प्रतिपादयति--सम्यक्त्वमिथ्यात्वतदुभयामीति / सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः / तत्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यातचश्रद्धानलक्षणम् / एवमेतत् विविध दर्शनमोहनीयं सूचितम् / कषायनोकषायाबित्यनेन चारित्रमोहनीयभेदद्वयाख्यानम् / __ अनन्तानुबन्धिप्रभृति कषायास्त एव मोहनीयम् / अषाया हास्याभकषायस्यार्थः दयः, केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यकषायाः / सदैव हि कषायसंपृक्ताचारित्रमोहनीयव्यपदेश्याः, अल्पकषायकायत्वादकषाया इति। सब कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलम्-अनन्तानुबन्धिक्रोधमानमायालोमा इति / अनन्तः संसारस्तमनुबनन्ति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः / अविद्यमान प्रत्याख्यानं येषामुदयात् ते प्रत्याख्यानाः क्रोधादयः / अपरे पुनरावरणशन्दमत्रापि सम्बध्नन्ति-अप्रत्याख्यानावरणा इति / अप्रत्याख्यानं देशविरतिः, तदप्यावृण्वन्ति 'प्राशंस्य ' इति -पाठः। 2 'रूपास्तत्रैव ' इति अ-पाठः / 3 ‘सम्पर्काः' इति पाठा।