________________ सूत्र 9] . स्वोपज्ञभाष्य-टीकालङ्कृतम् नीयम् अनुभवनीयं निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणः / वेदनीय .. दर्शनावरणोत्तरप्रकृतिप्रप्तावे वेदनीयं प्रस्तावापास्तमुपन्यस्तमित्यसमीची" नमिवाभाति / यतो वेदनीयं तृतीयमूलप्रकृतिरिति / अत्रोच्यते-दर्शनावरगभेदा दर्शनावरणजातीया एव, निद्रादयो यतः समधिगताया एव दर्शनलब्धेः उपयोगेधाते प्रवर्तन्ते, चक्षुदेशनावरणादिचतुष्टयं तूद्गमोच्छेदित्वान्मूलघातं निहन्ति दर्शनलब्धिमित्यतो दर्शनावरणभेदाः / वेदनीयशब्दस्तु सामान्येन सकलकर्मानुभववचनोऽपि प्रवचने प्रसिद्धतरस्वात् तृतीयमूलप्रकृतौ व्यवहियते / अनुभवनीयत्वं तु सर्वकर्मणां परमार्थतः समस्तीत्यतो न दोषः। दुःखप्रतिबोधलक्षणा निद्रानिद्रा / ऊर्वशयनलक्षणा प्रचला। चङ्क्रमणमाचरतः शयनं प्रचलामचला। स्त्यायतीति स्त्यानम्। स्तिमितचित्तोनातीव विकस्वरचेतन आत्मा / बाहुल कात् कर्तरि ल्युट् / स्त्यानस्य स्वापविशेषे सति गृद्धिः-आकाङ्क्षाभिलाषो पाठान्तर परामर्शः र मांसमोदकदन्तायुदाहरणप्रसिद्धा स्त्यानगृद्धिः / स्त्यानर्द्धिरिति वा - पाठः / तदुदयाद्धि महाबलोऽर्धचक्रवर्तितुल्यबलः प्रकर्षप्राप्ती भवति / अन्यथा जघन्यमध्यमावस्थाभाजोऽपि संहननापेक्षया सम्भवत्येवेति / स्त्यानस्य ऋद्धिः स्यानदिरिति / चशब्दः समुच्चयवृत्तिः / दर्शनावरणभेदाः चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयति वाक्यार्थः / उक्तार्थानुगामि चं भाष्यम् _ भा०-चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरण, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीयं, प्रचलामचलावेदनीयं, स्यानदिषेदनीयमिति दर्शनावरणं नवभेदं भवति // 8 // टी०-चक्षुर्दर्शनावरणमित्यादि सर्व गतार्थम् / दर्शनावरणं नवभेदं भवतीस्वन्ते निगमितं नवभेदमेवेति // 8 // सम्प्रति यत्तदागमे प्रसिद्धं वेदनीयत्वेन तृतीयं मूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आहबेदनीयस्य द्वे सूत्रम्-सदसवेद्ये // 8-9 // उत्तरप्रकृती टी०-उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सद्यमसवेध चेति वेदनीपमूलप्रकृतेरुत्तरप्रकृतिद्वयं भवति / तत्राभिमतमिष्टमात्मनः कर्तुरुपभोक्तुर्मनुजदेवादिजन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागन्तुकानेकमनोज्ञद्रव्यक्षेत्रकालावभवसम्बन्धसमासादितपरिपाकावस्थमतिबहुमेदं यदुदयाद्भवति तदाचक्षते / सवेंदनीयमभिहितं, विपरीतमसदनीयम् / एवंविधाथोनुवादि च भाष्यम् / / योगतः' इति स-पाठः। 2 'त्यानस्तिमित' इति च-पाठः। 3 'स्स्यानगृद्धि' इति घ-पाठा / ४'भावसम्बन्ध' इति ग-पाठः।