________________ 134 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 8 वद् यथा-इन्द्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाचावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगायोगास्थादिविकल्पाः केवलज्ञानस्येति / तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भवं क्षयोपशमनं ज्ञानं योग्यदेशावस्थितख विषयग्राहि / अनिन्द्रियं तु मनोवृत्तिः ओघज्ञानं च, तदेतन्मतिज्ञानं चतुरष्टाविंशतिद्वात्रिंशत्पत्रिंशदुत्तरत्रिशतभेदमावियते येन तन्मतिज्ञानावरण देशघातिलोचनपटलवच्चन्द्रप्रकाशाऽभ्रादिवद् वा / तथा श्रोत्रेन्द्रियोपलब्धिः श्रुत शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि खार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकमेदमाचक्षते प्रवचनाभिज्ञाः / यथाऽऽह (बृहत्कल्पे१) जावंति अक्खराई, अक्खरसंजोग जेत्तिया लोए / एवइया पगडीओ, सुयनाणे होति नायव्वा // 1 // " तस्यावृतिः श्रुतज्ञानावरणम् / एतदपि देशघातीति / अन्तर्गतबहुतरपुद्गलद्रव्यावधानादवधिः पुद्गलद्रव्यमयोदयैव वाऽऽत्मनः क्षयोपामजः प्रकाशाविर्भावोऽवधिः-इन्द्रियनिरपेक्षः साक्षात् झेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमवधिज्ञानावरणम् / इदमपि देशपास्येव / तथाऽऽत्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवृत्तिपल्योपमासङ्ख्ययभागावच्छिन्नपश्चात्पुर:कृतपुद्गलसामान्यविशेषग्राही मनःपर्यायज्ञानसंज्ञस्तस्यावरण देशवाति मनःपर्यायज्ञानावरणम्। समस्तावरणक्षयाविभूतमात्मप्रकाशतसमशेषद्रव्यपर्यायग्राहि केवलज्ञानं तदाच्छादनकृत् केवलज्ञानावरणम् / एतच सर्वघातीति // 7 // सम्प्रति दर्शनावरणोत्तरप्रकृतिप्रतिपिपादयिषया सूत्रमाहदर्शनावरणस्य नवो. सूत्रम्-चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रात्तरप्रकृतयः प्रचलाप्रचलाप्रचलास्त्यानड़िवेदनीयानि च // 8-8 // टी-चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः प्रस्तुतावरणसम्बन्धाद् वेदनीयसम्बन्धनिराकरणप्रतिपत्तेश्व, दर्शनावरणमूलप्रकृतिसामर्थ्यात् चक्षुरादयो दर्शनशब्देन सहामिसम्बध्यात् , निद्रादयः पञ्च स्त्यानद्धर्थन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थम् / पश्यत्यनेनात्मेति चक्षुः। सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस करणद्वार, तद्वारकं च सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनं तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लब्धिघात्यचक्षुर्दर्शनावरगम् / अवधावपि प्रथमसम्पाते सामान्धमात्रोपलम्भनमवधिदर्शनम् / केवलदर्शनमपि सामान्योपयोगलक्षणम् / एतदुत्तरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च / स्वापो निद्रा सुखप्रातेषोधलक्षणा / वेद१.छाया यावन्ति अक्षराणि अक्षरसंयोगा यावन्तो लोके / एतावत्यः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः // २'तदात्मनो' इति इ-पाठः / ३'छिन्नपचागा(१)-पुरःकृत' इति च-पाठः। ४'त्यानदिद-इतिघ-पाठ