________________ सूत्र 7] स्वोपज्ञभाष्य-टीकालङ्कृतम् - तद्यथेत्यनेन सूत्रं सम्बध्नाति / पञ्चादिभेदा झानावरणादयोऽभिहिताः, तद् यथा ते व्यवस्थिताः येन क्रमेण स्वरूपेण पञ्चादिभेदास्तथा अष्टापि मूलप्रकृतिषत्तरप्रकृतयः प्रतिपदं प्रदय॑न्त इत्याह। सूत्रम्-मैत्यादीनाम् // 8-7 // टी०-मत्यादीनामित्यादि / मतिरादिर्येषां श्रुतावधिमनःपर्यायकेवलज्ञानानामिति तद्गुणसंविज्ञानो बहुव्रीहिः तानि मत्यादीनि तेषां मत्यादीनामावरणम् / क्रिययाऽऽप्तुमिष्टतमत्वात् कर्मणि षष्ठी / मत्यादीनामावरणं मत्यादीन्यात्रियन्तेऽनेनेति / अपरे तु प्रतिपद पश्चापि पठन्ति-मतिश्रतावधिमन:पयोयकेवलानामिति / एवं चापार्थकः पाठो लक्ष्यते / यतोऽ नन्तरसूत्रे पश्चादिभेदा ज्ञानावरणादय इत्यवतमेव / निज्ञोताश्च स्वरूसूत्रपाठविचारः पतः प्रथमाध्याये व्याख्यातत्वात् / अत आदिशब्द एव च युक्तः। भाष्यकारोऽप्येवमेव सूत्रार्थमावेदयतेभा०-मत्यादीनां ज्ञानानामावरणं पञ्चविधम्-मतिज्ञानावरणं, श्रुतज्ञानावरणं, अपधिज्ञानावरणं, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणम् / मत्यादीनां जानानामावरणानि पञ्च भवन्ति // 7 // 10-ज्ञानावरणं पञ्चविधं भवति / मत्यादीनां ज्ञानानार्मोवरणानि पञ्च विकल्पाश्चैकश इत्येतावदेव भाष्यमस्य सूत्रस्य / तत्र ज्ञानावरणं पञ्चविधं भवतीत्यनेनानन्तरसूत्रोक्तसंख्यावधारणं मन्तव्यम् / सूत्रार्थमाचष्टे-मत्यादीनां ज्ञानानामावरणानि पञ्चेति, मत्यादय एव ज्ञानानीति समानाधिकरणमाविष्करोति / तेषां मत्यादीनां ज्ञानानां पश्चाना पश्चैवावरणानि भवन्ति / बाहुल्यमङ्गीकृत्य समानाधिकरणप्रतिपत्तिः / मनःपर्यायज्ञाने तु सप्तम्यन्तेन समासः पूर्वपदेन, मनःपर्यायेषु ज्ञानं मनःपर्यायज्ञानम् / अथवा करणरूपाः पर्यायाः कार्यत्वेनोपचरिता इति समानाधिकरण एव / तानि तु प्रथितान्येव / तद्यथा-मतिज्ञानावरणं श्रुतशानावरणं अवधिज्ञानाचरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति / तत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा भतिज्ञानादिव्यपदेश्याः पर्याया बहुविकल्पाः / तत्र च ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पा: सम्भवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्या इति भाष्यार्थः / विकल्पा-भेदाः / आदिशब्दोपादानात् मत्यज्ञानादित्रितयं समुच्चीयते, बोधसामान्यात् मतिश्रुतावध्यविशेषाच्च / 1 'मतिश्रुतावधिमनःपयांयकेवलानाम् ' इति घ-टो-पाठः। 2 'कारोऽयमेव' इति इ-पाठः। 3 घ-पुस्तके। भाष्यं तु यथा-'ज्ञानावरण १ञ्चविधं भवति / मत्यादीनां ज्ञानानामावरणानि पश्च / विकल्पांचैकश इति ॥'इर्द टीकाकाराणां संमतम् / 4 ‘मावृणोति' इति इ-पाठः / ५'धारणम् / मत्यादीना' इति इ-पाठः /