________________ 130 तत्त्वार्थाधिगमसूत्रम् [अभ्यायः 8 प्रतिशब्दः / दुष्टप्रकृतिर्दुष्टस्वभाव इति प्रसिद्धेः / ज्ञानावरणं ज्ञानाच्छादनस्वभावं दतः, एवं दर्शनावरणादावपि योज्यम् / स्वभाववचनत्वे च भावसाचनः प्रकृतिशब्दः। स्थित्यनुभावशब्दावपि भावसाधनौ / इयत्तयाऽवधारणात् प्रदेशशब्दः कर्मसाधनः / क्रमनियमस्तु शेषविकल्पप्रकृतेरादौ प्रकृतिबन्धः / उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः / सत्यां स्थितौ फलदानक्षमत्वादनुभाववन्धः / ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः / स बन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात्तच्छब्देन परामर्शः / विधिविधानं-मेदः सस्य विधवस्तद्विधयो-बन्धभेदा इति, एतद् भाष्यकृताऽऽविष्कृतमेव प्रत्येकं सम्बनता बन्धशब्दम् // मा०-प्रकृतिबन्धः, स्थितिबन्धः, अनुभाववन्धः, देशबन्ध इति // 4 // टी०-तत्र यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिबन्धः कर्मात्मनोरक्यलक्षणः, सतधात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादिलक्षणा। तथाचोक्तमेव कर्मपुद्गलराशेः कत्रों परिगृहीतस्यात्मप्रदेशेष्ववस्थानं थतिः। अध्यवसायनिर्वर्तितः कालविभागः, कालान्तरावस्थाने सति विपाकवत्ताऽनुभाषबन्धः / समासादितपरिपाकावस्थस्य पदरादेरिवोगभोग्यत्वात् सर्वदेशोत्येकद्वित्रिचतुःस्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः / ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपण, प्रदेशबन्धः, अत्र च पारमर्षवचनविदः कणिकागुडघृतकंदुकभाण्डादिद्रव्यविकार मोदकमाहरन्ति प्रकृत्यादिबन्धनिरूपणाय / तथाहि-चित्रः पुद्गलपरिणामः कर्तुरध्यवसायानुगृहीत इति भाम्यते / मोदको हि वातपित्तहरो बुद्धिवर्धनः संमोहकारी मारक इत्यनेकेनाकारेण परिणमते, जीवसंयोगात् , तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कषिद झानमाषणोति, अपरो हि दर्शनं स्थगयति, अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यम् / भूयस्तस्यैवाविपभगन्धरसादेरविनाशित्वेनावस्थान स्थितिः / आह च " इति कर्मणः प्रकृतयो मृलाश्च तथोत्तराच निर्दिष्टाः / तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः॥१॥" तस्यैव च स्निग्धमधुराधेकद्विगुणादिभावोऽनुभावः / यथाऽऽह-- " तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः। स रसोऽनुभावसंज्ञस्तीबो मन्दोऽथ मध्यो वा // 1 // " पुनस्तस्यैव कणिकादिद्रव्यपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुद्गलपरिमाणनिरूपण प्रदेशबन्ध इति / यथोक्तम्---- 'कलापपरि.' इति ग-पाठः। 2 'पात्याधास्य' इति ग-पाठः। 3 'कटुभाण्ड' इति ब-या। .मोहरो' इति ग-पाठः।