________________ मूलप्रकृतयो सूत्र 5] स्त्रोपज्ञभाष्य-टोकालङ्कृतम् "तेषां पूर्वोक्तानां स्कन्धानां सर्वतोऽपि जीवेन / सर्वैर्देशैर्योगविशेषाद् ग्रहणं प्रदेशाख्यम् // 1 // प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैद्धाः / / कर्माणि बनतो मुञ्चतच सातत्ययोगेन // 2 // " इतिकरणो मौलबन्धभेदेवत्ताप्रतिपादनार्थः / ज्ञानापरणादिकर्मणामष्टानामपि प्रकत्यादिभेद एव मौल इति // 4 // उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः। तत्र-तेषु चतुर्ष प्रकृत्यादि लक्षणेषु बन्धभेदेषु प्रथमो मेद उच्यते / स च बन्धो द्वेधा-मूलप्रकृतिबन्धः उत्तरप्रकृतिवन्धश्च / मूलप्रकृतिबन्धपतिपपयेमिदं वचनम् सूत्रम्-आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीया युष्कनामगोत्रान्तरायाः // 8-5 // टी-आदौ भव आद्योऽनन्तरातीतसूत्रविन्याससंश्रयणात् (1) ज्ञानदर्शनयोः आवरणशब्दः प्रत्येकमभिसम्बध्यते ज्ञानावरणं दर्शनावरणमिति / ज्ञानमेव बोधलक्षणो विशेपविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलम्भलक्षणस्तयोरावरणं-आच्छाद ... नमातिः आवरणं आत्रियते वाऽनेनेति भावकरणयोयुत्पत्तिः, सुखदुःखशानाधरणादीनां न रूपेणानुभवितव्यत्वाद् वेदनीयमिति कर्मसाधनम् / मोहयति मोहन वा मुह्यत्यनेनेति वा मोहनीयम् / एत्यनेन गत्यन्तराणीत्यायुः, आयुरेव घायुष्क स्वार्थे कन् / नामयतीति नाम प्रहयत्यात्मानं गत्याद्यभिमुखमिति, नम्यते वा प्रहीक्रियतेऽनेनेति नाम / कर्तरि करणे वा व्युत्पाद्यते / गोत्रं उच्चनीचभेदलक्षणं तद् गच्छति-प्राप्नोत्यात्मेति गोत्रम् / अन्तर्धीयतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः / अन्तर्धानं वाऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः / " कृत्यल्युटो बहुलं" ( पा० अ० 3, पा० 3, मू० 113) इति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः / तुल्यार्थत्वात् सकीयन्ते संज्ञा इति चेन प्रसिद्धतरत्वात् गोसपोदिसंज्ञावत् / एवमेते ज्ञानावरणादयः कृत्त .. द्वन्द्वाः प्रथमया निर्दिष्टाः / ऋमस्त्वेषामर्थापेक्षः / तथाच ज्ञानदर्शनावरपानावरणादीनां " णोदयजनिता सर्वसन्चान! भवथा। तां च वेदयमानोऽपि मोहामिभूक्रमे हेतुः तत्वान्न विज्यते / अविरक्तश्च देवमानुपतिये नरकायुषि वर्तते / न पानामकं जन्म / जन्मवन्त चानुस्यूताः संदेव गात्रणा / तत्र संसारिणां सुखलेशानुभव: सान्तरायः सर्व इत्यन्तरायनिर्देशः / / व्युत्पत्त्यर्थः १'बदति ' इति इ-पाठः। 2 अत्र काचित् त्रुटिरिति प्रसः। 3 'व्यवस्था' इति हु-पाटः।