________________ 129 4.] स्वोपज्ञभाष्य-टीकालङ्कृतम् पटकादिभाविनो मृवयना आमेडिता यथा पिण्डे / सदज्ज्ञानावरणादिकर्मदेशा अपि ज्ञेयाः // 3 // आमेडितमविभक्तं यद्यप्यष्टविधमिष्यते कर्म / एवमपि जिनदृष्टं नानात्वं प्रकृतितस्तस्य // 4 // पुद्गलतासाम्येऽपि द्रव्याणां ननु विपाकतो भेदः। दृष्टः पित्तकफानिलपरिणामवतां स्वगुणभेदात् / / 5 // यस्य गुणो यादृक् स्यात् ननु तादृशमेव भवति तस्य फलम् / नहि जाम्बवानि निम्बः फलति न जम्बुश्च निम्बानि // 6 // कमेवरवोऽपि तद्वन्नानास्वस्वप्रयोगपरिषिक्ताः। नानास्वस्वगुणसमान् फलन्ति तांस्तान् गुणविशेषान् // 7 // " एनमेव चार्थ भाष्यकारोऽपि स्पष्टयति भाष्येणभा०–स एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति // 3 // टी०-स एष इत्यादिना। स एष लोलीभूत आत्मप्रदेशकर्मपुद्गलपिण्डः स इत्यनेन परामृश्यते / एष इति नान्यः / तस्यैवानुसन्धानमाचष्टे / आत्मप्रदेशानां पुद्गलानां चान्योन्यानुगतिलक्षण एव पन्धो भवति / कर्मशरीरमिति कार्मणशरीरमात्मैक्याद योगकषायपरिणतियुक्तमपि च कर्मयोग्यपुद्गलग्रहणे-आत्मसात्करणे एकत्वपरिणामापादने समर्थम् / एवं प कर्मशरीरेण पुद्गलानां यद् ग्रहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं भवति // 3 // भा०-स पुनश्चतुर्विधः री०-स पुनश्चतुर्विध इत्यनेनोत्तरसूत्रसम्बन्धं कथयति लक्षणविधानाभ्याम् / जीवादिपदार्थसप्तकव्याख्या प्रस्तुता, तत्र लक्षणतः प्रतिपादितो बन्धः / सम्प्रति लक्षितस्य विधान पाच्यम् / अतः स एष उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादपति, अवस्थाभेदाद् वा, यथा पृथग्जनः क्रौर्यनीचैस्त्वलोमादिभेदानानात्वं प्रतिपद्यते तद्वद पन्योऽपीति / पुनःशब्दो बन्धं विशिनष्टि-द्रव्यमावभेदे सति भावबन्ध इति / चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः / तत्प्रकारनिरूपणायेदमाहपन्धस्य विधान- सूत्रम्-प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः // 8-4 // चतुष्टयम् टी.-प्रकृत्यादयः कृतद्वन्द्वाः भवन विभक्त्या निर्दिष्टाः, तत्र प्रकृतिमलिं कारणं प्रत्यादीनां मृदिव षटादिभेदांनामेकरूपपुद्गलग्रहणम् , अतः प्रक्रियन्तेऽस्य सकाशासाधनता दिति अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः / स्वभाववचनो या '' इखि ग-पाठः। 2 'एककोली ' इति पाठः।। 'विभत्मादिनिर्दिधाति -पाठा / 'मेदा भागैक ' इति ग-पाठः।