________________ 128 तस्वार्थाधिगमसूत्रम् [ अध्यायः 8 नष्टि-कर्मशरीरग्रहणयोग्यानित्यर्थः। कमैवाष्टविधं शरीरमुक्तम् , अतः स्वार्थे' कर्मण(?)मिति प्रत्ययः / कर्मैव कार्मणं, कर्मसङ्घात इत्यर्थः। ते पुनरादीयमानाः पुद्गलाः कोऽऽत्मना किम्? नाना कर्म गां प्रत्यया भवन्ति-कारणतां प्रतिपद्यन्ते, क वा व्यवस्थिताः ? कुतो वा योगविशेषादित्याधुपक्रम्येदमुक्तम् / नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते / खवयमर्थः-सर्वकर्मणाम् अन्वर्थसंज्ञा नाम संज्ञेत्यनान्तरम् / तद्यथा-ज्ञानावरणमित्यादि / ज्ञानमाब्रियते येन कर्मणा तत् ज्ञानावरणम्, एवं सर्वत्र नामान्वर्थ वाच्यम् / तस्यान्वर्थनाम्नो ज्ञानावरणादेः प्रत्ययाः-कारणानीति / नहि तान् पुद्गलान् विहाय ज्ञानावरणादिसंज्ञाः सिद्धयन्तीति / तथा सर्वासु दिक्षु व्यवस्थिताः, कायबामनोयोगानां च तीव्रादिपरिणामविशेषादित्यादि सर्वमिहेवाध्याये प्रदेशबन्धनिरूपणे व्याख्यास्यते उपरिष्टादिति // 2 // एवं बन्धहेतून निरूप्याधुना बन्धस्वरूपनिरूपणायाह सूत्रम्-स बन्धः // 8-3 // टी--बन्धनं गन्धः-परस्पराश्लेषः प्रदेशपुद्गलानां क्षीरोदकवत् प्रकृत्यादिभेदः / बध्यते वा येनात्मा-अस्वातन्त्र्यमापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः / स चानन्तरसूत्रे आत्मप्रदेशेषु रागाद्यभ्यञ्जनेषु कर्मयोग्यपुगलानामाश्लेषमात्रत्वेनोक्तः, तस्य स इत्यनेन परामर्शः क्रियते / हेतुश्च निवर्तयन् कार्य हेतुव्यपदेशं प्रतिलभते / तस्य च मिथ्यादर्शनादेरिदमेव निर्वयं कार्य, पौरुषेयसामर्थ्यप्रतिबन्धकारि जीवप्रदेशेषु ज्ञानावरणादिपुद्गलजालावस्थानम् / सामर्थ्य च पुंसो ज्ञानदर्शनवीर्यसुखमत्त्वं तस्य प्रतिघातकमात्मप्रदेशप्रतिष्ठे पुद्गलजालमिति / प्रतिष्ठा च तस्य विशिष्टगुणयोगाद् , यथा दीप ऊष्मगुणयोगाद् वा स्नेहमादायाचीरूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवाऽऽत्मदीपः स्कन्धानादाय कर्मतया परिणमनमापादयति / कायादिकरणयोगाच्चात्मनो वीर्यपरिणतिर्भवतीति योगशब्देनोच्यते / तथा मृण्मयघटस्याग्निसंयोगाद् रक्तत्वादिपरिणतिर्घटस्यैव तथाऽऽत्मनः कायादिकरणयोगवीर्यपरिणतिरात्मन एव प्रादुरस्ति, न द्रव्यातरस्येति / यथा च स्नेहाभ्यक्ते वपुषि जलावाससि वा परागो लगति मलीभवति च, तथा रागादिस्नेहाभ्यञ्जनस्यास्मनः कार्मणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दति, आत्मदेहयोरेक्यादिना भोगयेतः कमेबन्धः / यथाऽऽह " अपि चायं प्रायोगिकबन्धः स च भवति कर्तृसामर्थ्यात् / इष्टश्च स प्रयोगोऽनामोगिकवीर्यतस्तस्य // 1 // " इति // "ननु वीर्येणानाभोगिकेन परिपाच्य रसमुपाहरति / परिणमयति धातुतया, स च मनाभोगवीर्येण // 2 // 'कर्मणि ईप्रत्ययः' इति प्रतिभाति / हेतुतनिर्द' इति उ-पाठः / 3 'सामभ्यतया इति हु-पाठः।