________________ सूत्र 2 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 127 न च निर्हेतुकमिष्टं देहग्रहणं यदादिमं नृणाम् / सति चाप्यहेतुकत्वे ने स्यात् संसारनिर्मोक्षः // 3 // तस्मान्मूर्त कर्मेष्यतेऽर्हता येच तस्य परिणामः / दृष्टो मूर्तिर्दृष्टौ च येन तदुदीरणोपशमौ // 4 // यदि रूपि कर्म न स्यात् न स्यादात्मसहवयवद्धत्वात् / बद्धे वा सति कर्मणि ननु सिद्धा रूपिता तस्य // 5 // " एवं मूर्तत्वे सति न सर्वपुद्गला एव कर्मणो योग्याः, किं तर्हि 1 वर्गणासमस्तपुद्गला क्रमेण, मनोवर्गणायोग्यपुद्गलराशेरुपरि भूयस्त्वादयोग्यवर्गणामतीत्याद्यल्पन बन्धयोग्याः " त्वाच काणशरीरायोग्यवर्गणामुल्लङ्घय कर्मणो योग्यान पुगलानादत्त इति / आत्मा कर्ता अस्थगितास्रवद्वारः स्कन्धानतिसूक्ष्मानतिबादरांश्चायोग्यत्वात् परिहृत्य अनन्तावयानपि योग्यानेवादत्ते / यथाऽऽह "न स आदातुं स्कन्धानतिसूक्ष्मान् बादरांश्च शक्नोति / स्वादेन न बध्यन्ते जात्वणवः शर्कराश्च तथा // 1 // अणवः स्कन्धाकोत्तरपरिवृद्धाः सुसूक्ष्मपरिणामाः। केचिदनन्तावथवा अप्यग्राद्या.जिनरुक्ताः॥२॥ एभ्यस्तु पराः स्कन्धा एकोत्तरवृद्धिवर्धिताः सूक्ष्माः / मन्मयोग्यपुद्रलवर्णनम् पञ्चरसपञ्चवर्णास्तथा द्विगन्धाश्चतुःस्पर्शाः // 3 // अगुरुलघवः स्थिताश्च क्षेत्र कत्वेन वर्तमानाश्च / प्रायोग्याः कमेतया ग्रहीतुमुक्ताः परिणमय्य // 4 // अणवोऽसेत्स्यद्भयोऽनन्तगुणाः सिद्धवदनन्ततमभागाः / एकस्कन्धीभूताः स्कन्धानां चापि मार्न तत् // 5 // औदारिकादिशेषद्रव्यादाने स एव विधिरुक्तः। तत्राद्यस्य स्कन्धाः सर्वेऽल्पिष्ठप्रदेशास्तु // 6 // तेभ्योऽसख्येयगुणा वैक्रिययोग्याः प्रदेशतः स्कन्धाः / मौदारिकार धानां प्रदेशाः क आहारकस्य तेभ्योऽपि तथा स्कन्धा असख्येयगुणाः // 7 // तेभ्यः प्रभृति तथैवानन्ताभ्यस्ताः प्रदेशतः स्कन्धाः। क्रमशस्तैजसभाषाद्रव्यमनःकर्मणां योग्याः // 8 // " एतदेवानेन भाष्येण प्रतिपादयति-अष्टविधेत्यादिना / अष्ठप्रकारे पुगलग्रहणे औदारिक-वैक्रियाऽऽहारक-तैजस-भाषा-प्राणापान-मनः कर्म मेदेन पुद्गलाः परमाणवो द्विप्रदेशादगध स्कन्धा यावदचित्तमहास्कन्धः / एतेषु ये योग्याः पुद्गलास्तेषां अष्टविषे ग्रहणे सति विशि 'न यत् संस रति' इति ङ-पाठः / 2 . ईतो यश्च' इति ग-पाठः। ३'तस्मादात्म.' इति ब-पाठः /