________________ तत्वार्थाधिगमसूत्रम् [अभ्यायः 8 रिकादिवर्गणास्वष्टासु ज्ञानावरणादिकर्मयोग्याननन्तानन्तप्रदेशस्कन्धाचतुःस्पर्शान्, एतदेव च पुद्गलग्रहणेन स्पष्टयति / पूरणगलनलक्षणाः पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्र कर्म / कर्म हि पौद्गलमिष्टं रूपादिमदिति / आदल इति कर्मात्मप्रदेशेषु लगयति / करोतेः सर्वधात्वर्थवर्तित्वान्मिथ्यादर्शनावावेशादाीकृतस्यात्मनस्तदाकारपरिणतिक्रिया कर्मलगनहेतुः / कर्ता चात्मा क्रियायाः, क्रियानिर्वत्यै च कर्मेत्यमुमेवार्थ भाष्येण स्पष्टयति ___ भा०—सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते। कर्मणो योग्यानिति अष्टविधे पुद्गलग्रहणे कर्मशरीरग्रहणयोग्यानित्यर्थः / नामप्रत्ययाः सर्व तो योगविशेषादिति वक्ष्यते ( अ० 8, सू० 25 ) // 2 // ____टी०-सकषायत्वादित्यादिना / पदच्छेदोऽपि हि व्याख्यानम् / अन्यथा वट वृक्षे तिष्ठतीत्यादिषु निश्चय एव न स्यात् / ततः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारेणार्थमाचष्टे / मिथ्यादर्शनादयः कर्मवन्धस्याष्टप्रकारस्य सामान्यहेतवोऽभिहिता एव प्रथमसूत्रे, किमर्थ पुनः कपायग्रहणं भेदेनेति ? उच्यते-कपायाणां प्रधानहेतुत्वप्रतिपादनार्थम् / तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः स्वगुणपरिकल्पनानिमित्तत्वात अप्रणतिर्मानः परामिः सन्धाननिमित्तश्छमप्रयोगो माया। तृष्णापिपासाभिष्वङ्गास्त्रादलक्षणो लोभः / तत्रैककोऽनन्तानुबन्धी, संसारानुबन्धीत्यर्थः / एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति / त एते पापिष्ठा बन्धहेतवः संसारस्थितेमूलकारणं आँजन्मजराभावलक्षणायाः कष्टतमाः प्राणिनामनपराद्धवैरिणः / यथोक्तमा (दशवैकालिके अ०८, उ० 2, मू०४०)"कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाइं पुणभवस्स ॥१॥"-इन्द्रवजा तथा-" अइदुक्खं लोए, जं च सुहं उत्तमं तिहुयणमि / तं जाण कसायाणं, वुदिक्खयहेउयं सव्वं // 2 // " एतच सकषायत्वं हेतुत्वेनोपात्तम् / हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह / कषायपरिणामो हि परिणन्तुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति / यथाऽऽह "जीवस्तु कर्मवन्धन-बद्धो वीरस्य भगवतः कर्ता / सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कः // 1 // संसारानादित्वाद् बन्धस्यानादिता भवति सिद्धा। अत एव कर्म मूर्त नामूर्त बन्धकं हीष्टम् // 2 // 1 'कर्मयोग्या.' इति घ-पाठः। २'अष्टविध०' इति घ-टी-पाठः। 3 'निमित्ताशुद्धप्रयोगो' इति अ-पाठः। 4 'आवजवी( ? )भावलक्षणयोः' इति ग-पाठः। 5 'परावं वैरिणः' इति च-पाठः। 6 छाया कोधश्च मानश्च अनिगृहीती माया लोभश्च प्रवर्धमानी। चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य / छाया-यदतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवने / तदू जानीहि कषायाणां वृद्धिक्षयहेतुजं सर्वम् /