________________ भजना सूत्र 2] स्वोपज्ञभाष्य-टीकालङ्कृतम् 125 वागपि चतुर्धा / काययोगस्तु सप्तप्रकार:-औदारिककाययोगः, औदायोगानां पञ्चदश दशः रिकमिश्रकाययोगः, वैक्रियकाययोगः, वैक्रियमिश्रकाययोगः, आहारकविधत्वम् काययोगः, आहारकमिश्रकाययोगः, कार्मणकाययोगश्चेति // भा०-एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् बन्धप्रत्ययानां / सति नियतमुत्तरेषां भावः / उत्तरोत्तरभावे तु पूर्वेषामनि. यम इति // 1 // टी.-एषां सामान्यप्रत्ययानां मिथ्यादर्शनादीनां भजनां दर्शयति-नावश्यतया यत्रैकप्रत्ययस्तत्रान्यैरपि भाव्यम् / कदाचिदेकस्मिन् सति सर्वे भवन्ति, कदाचिनेति / एषां पञ्चानामपि सामान्यप्रत्ययानां मूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन् पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति / सति मिथ्यादर्शनप्रत्ययेऽवश्यंभा. विनोऽविरत्यादयश्चत्वारः / सत्यामविरतौ त्रयः प्रमादादयः / सति प्रमादे कषाययोगौ। सत्सु कषायेषु योगा इति / योगप्रत्यय एव सति नेतरे चत्वार इत्यादि विपरीतं भाव्यं यावत् न मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति-उत्तरोत्तरभावे तु पूर्वेषामनियम इति / अविरतिप्रमादकषाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः / योगकषायप्रत्यययोः सतोर्नावश्यमितरे त्रय इति सुज्ञानमिति // 1 // एवमुपपादिते विस्तरेण बन्धहेतौ इदमाशङ्कते-कथममूर्तस्यात्मनो हस्ताद्यसम्भवे सति आदानशक्तिविरहात् कर्मग्रहणमिति 1 / उच्यते-इयमेव तावदस्थानाऽऽरेका प्रक्रियाऽनमिशस्य, केनामूर्तताऽभ्युपेताऽऽत्मनः ? कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदकवन्मूर्त एव कर्मग्रहणे व्याप्रियते / न च बायहस्तादिकरणव्यापारादेयं घटादिवत् कर्म पौगलमपि सद, किन्तु अध्यवसायविशेषाद् रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गलजालश्लेषणमादानं, स्नेहाभ्यक्तवपुषो रजोलगनवदिति / एवंप्रकाराशङ्काव्यावृत्यर्थमिदमाहसूत्रम्-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्ते // 8-2 // टी-कषायाः-क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः / सह कषायैः सककर्मबन्धे ___षायाः तद्भावः सकयित्वं तस्मात् सकषायत्वात् / हेतौ पश्चमी / हेत्व __ र्थश्च कारणान्तरव्यावृत्तिः / पुनः कषायग्रहणं तीवाद्याशयविशेषप्रतिपादनार्थम् उत्कृष्टस्थितिरसविशेषप्रतिपादनार्थं च / जीव इत्यात्मा कर्ता स्थित्युत्पत्तिव्ययपरिणतिलक्षणः / सति च कर्तृत्वे कर्मबन्धफलानुभवौ। क्रियत इति कर्माष्टप्रकारं तस्य योग्यानौदा १'इत्यादि सुज्ञानमिति' इति च-पाठः।