________________ अष्टमोऽध्यायः८ टी०-उक्त आस्रव इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टेअध्याय- भा०-उक्त आस्रवः / बन्धं वक्ष्यामः / तत्प्रसिद्धयर्थमिदसम्बन्धः मुच्यते टी०-उक्तः-लक्षणविधानाभ्यामभिहितः “कायवाङ्मनःकर्म योगः" "स आस्रवः" (अ० 6, सू० 1-2 ) इत्यारभ्य सामान्यतो विशेषतश्च / सम्प्रति प्रस्तावा. यातसम्बन्धं बन्धं वक्ष्याम इति / एतदुक्तं भवति-जीवाजीवास्रवबन्धसंवरसूत्रक्रमेणास्रवो व्याख्यातः / तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते / तदेतदनेन प्रतिपादयति-तत्प्रसिद्धयर्थमिदमुच्यत इति / तस्य बन्धस्य प्रसिद्धिः-शब्दाथनिरूपणं तत्प्रसिद्धयर्थ-तत्प्रसिद्धये तन्निरूपणार्थमुच्यते / इदमिति वक्ष्यमाणमिथ्यादर्शनादिपञ्चकम् // ननु बन्धं प्रस्तुत्य तद्धेतुकथनमसम्बद्धमिव लक्ष्यते 1, नासम्बद्धम् ; यतो नाकारणा कार्यनिष्पत्तिः / बीजाद्धि प्रसवोऽङ्करस्य, प्रथमतरं च कारणमुपाददते कार्यार्थिनः, बन्धश्च कार्य कारणं तस्य मिथ्यादर्शनादिपञ्चकं प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याहबन्धस्य सामा- सूत्रम्-मिथ्यादर्शना-विरति-प्रमाद-कषायन्य हेतुपञ्चकम् योगा बन्धहेतवः॥८-१॥ ___टी०-मिथ्यादर्शनादयो योगान्ताः पञ्च कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः / मिथ्यादर्शनं-तत्त्वार्थाश्रद्धानलक्षणम् / अविरतिः-अनिवृत्तिः-पापस्थानेभ्यो विरतिपरिणामाभावः / प्रमादस्त्विन्द्रियविकथाविकटनिद्रालक्षणः / कषायाः क्रोध-मान-माया-लोभाः अनन्तानुबन्धिप्रभृतयः। योगा मनोवाकायव्यापारस्वभावाः / बन्धः कर्मवर्गणायोग्यस्कधानामात्मप्रदेशानां चान्योन्यानुगतिलक्षणः क्षीरोदकादेरिव सम्पर्को बन्धः / हेतुः निमित्तं कारणम् / बन्धस्य हेतवो बन्धहेतवः पञ्च मिथ्यादर्शनादयः / सामान्यहेतवश्यैतेऽवगतव्याः सर्वकर्मबन्धस्य / विशेषहेतवस्तु ज्ञानावरणादेाख्याताः षष्ठे " तत्प्रदोषनिव०॥ 1-2 'उक्ता मानवाः' इति क-ग-पाठः / 3 'सम्बन्धस्य ' इति ङ-पाठः। 4 ' तत्प्रसिद्धार्थ तत्प्रसिद्धयर्थे' ति -पाठः। 5. तदनुबन्ध इति सु-पाठः। 'सम्बन्धं' इति उ-पाठः / 'कार्याविनाबन्धः' ति उ-पाठः।