________________ 120 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 रोत्पन्नस्वरूपवानविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्य सारासारादयो वाच्याः / / भा०-दातविशेषः प्रतिग्रहीतयेनसूया, त्यागेऽविषादः, अपरिभाविना, दिसतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरुपधत्वम्, अनिदानत्वमिति // टी-दातृविशेष इति / दातुविशेषः-अतिशयः स्वपरिणामजनितः / प्रतिग्रहीता गुणसम्पन्नो वक्ष्यमाणः तत्रानसूया क्षमावत्त्वम् / प्रसन्नचित्तता पुण्यवानहं यस्य मे गेहमनुविशन्ति तपस्विनः / न त्वक्षमा कार्या, प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीभिर्वयमिति / त्यागेन विपीदति / दत्तेऽन्नादावविषादः। विपादो विषण्णता श्रद्धाहासोऽतिदत्तं मयेति / गृहेऽपि चिन्तनीयमेव प्रयोजनमिति, दत्त्वैवं चिन्तनीयमिदमेवैकं मम स्वं यद वतिनामुपयुक्तमिति। तथा परिभाविता परिभवति तच्छीलश्च परिभावी तद्भावः परिभाविता-अनादरः, न परिभाविता अपरिभाविता आदर इति / देशकालप्राप्तस्य तु प्रतिग्रहीतुर्वर्धमानश्रद्धाप्रापितेनादरेण दानम् / दित्सत इत्यादि / साधुदर्शने याचने वा दातुमिच्छतः परमया प्रीत्याप्रहृष्टतया योगः / एवं च ददतो दत्तवतश्च कालत्रयेऽपि प्रहयोगः / कुशलाभिसन्धितेति / भावकुशास्तु ज्ञानावरणादिकौशास्ताल्लुनाति-छिनत्यपनयतीति कुशलः / अभिसन्धिरमिप्रायः। कुशलोऽभिसन्धिर्यस्य, कर्मनिर्जरापेक्षी तद्भावः कुशलाभिसन्धिता। दृष्टफलानपेक्षिता। दृष्ट फलं राज्यैश्वर्यसुखादि सर्व वा सांसारिक स्वर्गाद्यपि दृष्टमेव बहुशोऽनुकूलत्वात् तन्नापेश्ते-न प्रार्थयते यः स दृष्टफलानपेक्षी, तद्भावों दृष्टफलानपेक्षिता / निरुपधत्वमिस्युपधा भावदोषो मायाकपाय जनितः, यथा कचित् पटलमाद्यपकरणे देयस्यौदनादेपरि रचयति वर्णगन्धाट्यमधस्तु निःसारमित्येवमादि तदभावान्निरूपधत्वमिनि / निदानमुक्तलक्षणं स्वर्गमानुषजन्मविषयं तत्प्रात्यभिसन्ध्यभावात् निर्जरार्थमेव केवलमनिदानत्वमिति // भा०-- पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपासम्पन्नता इति // 34 // टी-पाति-रक्षति संसारात दातारं दर्गतिभयप्रपातादात्मानं चेति पात्रं तस्य विशेप:-अतिशयः प्रकर्षवृत्तिता। कोहशी पुनः सेत्याह----सम्यग्दर्शनज्ञानचारित्रसम्पन्नतेति। तत्र सम्यक्त्वं नैसर्गिकाभिगमिकक्षायिकभेदात् प्रकर्यापकर्षवृत्ति / ज्ञानमप्यात्मपरिणामो ज्ञानाधरणीयादिक्षयोपशमजन्यः / चारित्रमपि सामायिकादिभेदाद् बहुप्रकारम् / एभिः सम्पन्नतामुक्तता सम्यक्त्वादिपरिणामभाक्त्वमित्येवं विध्यादिविशेषाद् विशिष्टं विशिष्टतरं विशिष्टतम व मोक्षपर्यवसानं दानफलं भवतीति // 34 // इति श्रीमदहेत्प्रवचने तरवाधिगम उमास्वातिवाचकोपज्ञसूत्रमाध्ये भाष्यानुसारिण्यां च टीका सिद्धसेनगणिविरचितायां अनगारागारिधीयसपका सतगी याय: / / 7 / / 1. सारादयो' इति हु-पाठः। 2 मार्गयन्ते' इति कुमारः। 3 विपादान' इति च-पाठः / ४'इतिवहुदत्त' इति च-पाठः /