________________ 122 तत्वार्थाधिगमसूत्रम् [ अध्यायः 8 (सु० 11) इत्यादिना सूत्रकलापेनेति / भाष्यकारस्तु पदविच्छेदेन पश्चापि सामान्यप्रत्ययान् दर्शयति____भा०--मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति। टी-मिथ्या-अलीकमयथार्थ दर्शनं दृष्टिः-उपलब्धिरिति मिथ्यादर्शनम् / विरमणं विरतिः-संयमः, न विरतिरसंयमो हिंसाद्यनिवृत्तिरिति / प्रमाद्यत्यनेनेति प्रमादः विकथादिकर्मग्रन्थाद् कः। कर्मप्रकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथग नोक्तः। असंयभप्रत्ययेनैव संगृहीभिन्नता तत्वाचतुर्विध एव प्रत्ययस्तत्राधीतः, प्रमादप्रत्ययः मिथ्यादर्शनासंयमकलापयोगाख्या, इह त्वाचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः / कष्यते यत्र शरीरमानसर्दुःखैः स कषः-संसारः।"पुसि संज्ञायां घः"(पा० अ०३, पा०३, सू०११८) तस्य आया-उपादानकारणानि कषायाः-क्रोधादयः। युज्यतेऽनेनेति योगः, नोकर्मणा योगद्रव्येणात्मेत्यर्थः। वीयोन्तरायकर्मक्षयोपशमजनितेन वीर्यपर्यायेण युज्यत इति / इतिशब्दोऽवधारणार्थः / एत एवं पञ्चविधा हेतवो भवन्ति सामान्यतः / तत्रेत्यादिना मिथ्यादर्शनादीनां स्वरूपं निरूपयति भा०-तत्र सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम् / तद् द्विविधम्-अभिगृहीतमनभिगृहीतं च // ___टी-तत्र-तेषु पञ्चसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदम्-सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनमिति तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं ( अ० 1, सू० 2) तस्मात् सम्यग्दर्शनाद् विपरीतलक्षणं मिथ्यादर्शनं तत्वार्थाश्रद्धानं, अयथार्थश्रद्धानमित्यर्थः / तद् विविधमित्यादि / तच्च मिथ्यादर्शनं द्विविधं-द्विप्रकारं अभिगृहीतमनभिगृहीत चेति / चशब्दात् सन्दिग्धवचनम् / अनभिगृहीतमिथ्यादर्शनभेदः सन्दिग्धमिति साक्षात् सोपात्तम् // भा०-तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां प्र. पाणां त्रिषष्ठीनां कुवादिशतानां, शेषमनभिगृहीतम् // टी-तत्रेत्यादि / तयोरभिगृहीतानभिगृहीतमिथ्यात्वयोरभिगृहीतप्रपञ्चोऽयम्-अ. भ्युपेत्येति / मत्यज्ञानादि किमपि परिकलय्यासम्यग्दर्शनपरिग्रहो मिथ्यादर्शनपरिग्रहस्तदभ्युपगम एतदेवैकं सत्यमिति प्रतिपत्तिरभिगृहीतमिथ्यात्वम् / तदर्शनेऽनेकभेदमित्याहअज्ञानिकादीनामिति / अज्ञानमेषामभ्युपगमोऽस्तीस्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति दीन्यन्ति वा अज्ञानिकाः, अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तत्त्वतः कश्चित् सक 1 'सामान्यतः' इति पाठा, 'सामान्येन ' इति तु क-पाठः / 2 'तदनेक' इति च-पाठः /