________________ 118 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः७ जातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदाप्रशस्त्रादेरनेकप्राणिदुःखहेतोः। किं ताह?, अन्नपानवस्त्रादेः / आदिग्रहणादौषिकौपग्रहिकसक लोपकरणपरिग्रहः। सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः। से च पुद्गलो. स्पादनेनैषणाशुद्धः। स च दातुः प्रतिग्रहीतुथोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् / यथाऽऽह--- " ज न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसि / वट्टइ अणुग्गहे ते विहिए दिन्नं असावजं // 1 // " द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रवज्याहं पुत्रदुहितभ्रातृपत्नीप्रभृति स्वामिना दत्तमनु. ज्ञातं प्रव्राज्यं, इत्थमुक्तेन न्यायेन देशकालोपपत्रमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् / अत्राधाकर्माद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्प र्यान्मुक्तिफलमपीति // ननु च सम्प्रदानं यत् साक्षात् प्रतिगृह्णाति यथा साधुरणुव्रती वा / यत् पुनर्भगवते दीयते निर्वाणप्राप्तये पुष्पबलिधूपादि तत्र कथं भगवतः सम्प्रदानत्वम् ? अत्रो च्यते-त्रिविधं सम्प्रदानं, प्रेरका-ऽनुमन्त अनिराकर्तृभेदात् / तत्र प्रेरकं यदर्थित्वमुपदर्शयत् कर्तार क्रियायां प्रेरयति / यत्रेदमुच्यते साधुभ्यो भिक्षां ददातीति / अनुमन्तु यथा-आचार्याय वासोयुगं ददातीति / आचार्यो हि यद्यप्यनार्थत्वान्न प्रेरयति दाने परं तथापि दातुरनुग्रहकियाचिकीर्षया दीयमानमनुमन्यते / अनिराकई यथा-भगवते पुष्पाणि ददाति धूपं वा, भगवान् न प्रेरयति नानुमन्यते, किन्तु परहितोयप्रतिघातपरिहारार्थमसनिधानाद् दातारं न निराकरोति / अतो युज्यत एव सम्प्रदानत्वं भगवतः / यदा तासनिधानादनिराकर्तृत्वं तदा कथं परोपयोगिता कर्मणः / नैवमुच्यते यत्र परस्योपयोगोऽवश्यमस्ति स त्याग इति, अपि तु यो व्यापारः कर्मणः परोपयोगामिप्रायेण स त्यागः / असन्निहितेऽपि चोपयोक्तरि त्यक्तः सोऽभिसन्धिरस्तीत्यदोषः। कारकत्वं वा सनिहितस्य क्रियायां निमित्तभावात् / एतावतैव च कारकत्वमिष्टं, देवताश्च स्वगुणातिशययोगाद् दातुश्चेतसि प्रसादमादधानास्त्यागे निमित्ततां आप घन्त एवेति // 33 // किश्चेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमादतिशयभेदप्रतिपत्त्या फलविशेषनिरूपणायाह सूत्रम्-विधि-द्रव्य-दातृ-पात्र-विशेषाच तद्विशेषः // 7-34 // टी०-विध्यादयः कृतद्वन्द्वाः तेषां विशेष:-अतिशयः प्रकर्षापकर्षयोगः तस्माद् विध्यादिविशेषाच्च धर्मविशेषः / धर्मश्च क्षमादिदशलक्षणकः, स पुण्योपचयनिर्जराहेतुः / पुण्योप 1 'भवदुद्गमो०' इति च-पाठः। 2 छाया यत् न च दुःखितं न च दुःखकारणं भवति दत्तमन्येषाम् / वर्ततेऽनुग्रहे तद् विधिना दत्तमसावद्यम् // 1 // 3 सन्तुल्यतामाचारावृत्तिगतं यत्स्वयमदुःखितं स्यात्' इत्यादिपूर्वकं पद्यम् / 4 'देयव्रताघात' इति इ-पाठः / 5 'एतावदेव च' इति उ-पाठः। 6 'अपि प्रतिपाद्यन्त ' इति चकाठः।