________________ सूर्य 33 ] स्वोगजभाष्य-टीकालङ्कृतम् 117 तेदनुवादद्वारेण दानं प्रस्तौति / उक्तानि-अभिहितानि लक्षणतो व्रतानि व्रतिनध / तदनन्तरमुद्दिष्टं अथ दानं किमिति / सद्वेद्यक स्रवाभिधानक्रममाश्रित्य प्रश्नयति-दानं किंलक्षणक मिति, तत् दानलक्षणं वतुकामः अत्रोच्यत इत्याह / - सूत्रम्-अनुग्रहार्थं स्वस्यातिसर्गो दानम् // 7-33 // टी०---अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवोदितः / तत्र किंलक्षणं दानमित्याह-अनुग्रहार्थ स्वस्यातिसगों दानम् / अनु. गृह्यतेऽनेनेत्यनुग्रहोऽन्नादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुपङ्गिकफलं प्रधान मुक्तिः, आनुषङ्गिकं स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुलप्रत्ययातिविभवबोधिलाभादिः सोऽर्थः-प्रयोजन यस्य तदनुग्रहार्थ-अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात् / स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः / स्वमात्मीयन्यायेन स्वीकृत पूर्वजक्रमागतं न्यायवृत्या वा स्वसामोपात्तं तस्यातिसर्गः-त्यागः / न चोज्झनमात्र त्यागशब्देनोच्यते, किं तर्हि ?, दानं विशिष्टसंप्रदानकमित्यर्थः / तच्च सम्प्रदानं द्विविधम्-अहंदगपन्तः साधर्मिकाच, तबाहद्भयो दीयते पुष्प-बलि-धूप-चामरा-ऽऽतपत्र-कलश-ध्वज चन्द्रातपकिरीटाभरणादिः / साधर्मिकास्तु द्विप्रकाराः-साधवः श्रावकाश्च / साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः / श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधर्मभाजः / तेभ्यो दानमभादेदेशकालोपपन्नामिति / एवंविधमूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् / भा०-आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् // 33 // किश्च टी०-अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते / श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः देयसम्पन्चेति / आत्मा च परश्च आत्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् / अनुग्रह उपकारः / स च विशुद्धया धिया ददतः, कर्मनिर्जरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्व लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् / तच निर्जरादिफलमुपेयं उपायाहते न सम्पघत इन्युभयपरिग्रहः / देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदॆनिर्भरेण चेतसा रोमाञ्चकञ्चकोपगूढवपुषा वाऽभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वकं समाधाकाश्यमित्यादिरुपायः / आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पनो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाग मूलोत्तरगुणसम्पदुपेतः पात्रमिष्यते / स्वस्य द्रव्यजातस्यानपानव. नादेरित्यनेन देयनिर्देशः / स्वस्येत्यात्मीयस्थ लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य / द्रव्य 1 हेतुवादद्वारेण ' इति हु-पाठः। 2 “विशुद्धत्वं' इति ङ-पाठः। ३'श्रयाऽभाव' इति म-पाठः / 4 'पायपरि.' इति च-पाठः। ५'दातिभरण' इति -पाठः /