________________ तत्त्वार्थाधिगमसूत्रम् [ अध्याया शीलसप्तकाविचारानभिधाय सम्प्रति मारणान्तिकसंलेखनायाः कति अतिचारा भवन्तीत्याहसूत्रम्-जीवितमरणाशंसामित्रानुरागसुखानुबन्ध निदानकरणानि // 7-32 // टी०-आशंसाशब्दं जीवितमरणाभ्यां सहाभिसम्बध्नमाह भा०-जीविताशंसा मरणाशंसा मित्रानुरागः सुखानुवन्धो निदानकरण. मित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति // टी-जीविताशंसेत्यादि / संलेखनायाः अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यतीचाराः / जीवितं-प्राणधारणं तत्राशंसा-अभिलाषो यदि बहुकालं जीवेयमिति / वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्यातानशनस्यापि, यत एवं विधा मदुद्देशेनेयं विभूतिर्वर्तते इति / मरणाशंसा त्वेतद्विपरीता, न कश्चित् तं प्रतिपन्नानशनं गवेषयति न सपर्यति न चाद्रियते न कश्चित् श्लाघते ततस्तसर्वविधश्चित्ते परिणामो जायते-यदि शीघ्र म्रियेयाहमपुण्यकर्मेति मरणाशंमा / मित्रानुराग इति / मेघन्तीति मित्राणि-स्नेहमत्यन्तं कुर्वन्ति सहजीवितमरणानि तेषु मित्रेषु अनुरागः-स्नेहो यस्तं तादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतिचारः / तथा पुत्रादिष्वपीति योज्यम् / मित्रस्योपकारमकृत्वा पुत्रादीन् वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसङ्गत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः। सुखानुबन्ध इति / अनुभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानुबन्धः। निदानकरणमिति। निदानम्-अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो ममास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्धमरताधिपतिर्महामण्डलिकः सुभगो रूपवानित्यादि / एतच्चात्यन्ताधममनन्तसंसारानुबन्धित्वात् परित्याज्यम् / इत्येते पञ्चषष्टिरतिचारा ज्ञेयाः परिहार्याश्च ज्ञात्वेत्थमगारिधर्म एवंप्रकारः // ननु सम्यक्त्वातिचारपञ्चकसम्भवात् सप्ततिरविचाराः स्युरिति ? उच्यते-सम्यक्त्वं हि मूलप्रसादपीठरचनावत् आधारभूतमणुव्रतादीनाम्, . अतस्तस्याधारत्वान्न व्रतशीलेष्वतिचारग्रहणम् / तदेतेष्वित्यादिनोपसंहरति मा०-तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो न्याय्य इति // 32 // टी-तसादपायदर्शनादेतेषु पञ्चषष्टिष्वतिचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति // 32 // भा०-अत्राह- उक्तानि व्रतानि वतिनश्च। अथ दानं किमिति अत्रोच्यतेटी--अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे / अत्र-व्रतेषु व्रतिषु च व्याख्यातेषु 1 वाच्यादि ' इति च पाठः / 2 ' अनुबन्धभूतस्त्रीविशेष०' इति ग-पाठः / 3 'सम्यगति' इति अगाका /