________________ सून 31] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 115 फन्दाकादिसाधारणवनस्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः / पृथिव्यादिकायानां वा सचित्तानाम् / तथा सचित्तेन सम्बद्धं ककेटिकवीजकौलिकाकुलस्य पकवदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहारत्वम् / तथा सचित्तेन सम्मिश्राहारः पुष्प-फलवीहि-तिलानांव्यतिमिश्रमोदकादिखायस्थ वा / कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यपहारः अभिषवाहार इति / सुरासौवीरकमांसप्रकारपर्णक्याद्यनेकद्रव्यसङ्घातनिष्पन्नः सुरासीधुमधुवारादिरभिवृष्यवृक्षद्रव्योपयोगो वा। दुष्पकाहार इति / दुष्पकं मन्दपकर्मभिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककण्डुकादि तस्याभ्यवहौर ऐहिकप्रत्यवायकारी, यावता वार्डशेन सचेतनस्तावता परलोकमप्युपहन्तीति // 30 // उत्तमुपभोगपरिभोगत्रतातिचारविधानम् , तदनन्तरं व्याख्यातातिथिसंविभागातिचारप्रदर्शनार्थमिदमुच्यतेअतिथिसंविभागवत- सूत्रम्-सचित्तनिक्षेपपिधानपरव्यपदेशस्य पञ्चातीचाराः . मात्सर्यकालातिकमाः॥७-३१॥ भा०-अन्नादेव्यजातस्य संचित्तनिक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशः मात्सर्य कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्ति // 31 // टी०-अन्नादेरित्यादि / अन्नमोदनखाद्यकादि चतुर्विध आहारोवाऽशनादिः तस्य स. चित्तेषु व्रीहि यव गोधूम-शाल्यादिषु निक्षेपः। तच्चान्नादि कया बुद्धथा निक्षिपति?-अदानबुदया। एतच्च जानात्यसौ-सचित्ते निक्षिप्तं सत् न गृह्णन्ति साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लामोऽयं ममेति / सचित्तपिधानमिति। सचित्तेन पिधानं-स्थगनं सूरणकन्दपत्रपुष्पादिना तत्रापि तथाविधयैव बुद्धया सचित्तेन स्थगयति / परव्यपदेश इति साधोः पौषवोपवासपारणाकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिति नास्माकीनं अतो न ददामीति, न चैप परमार्थः, परमार्थतस्तु तदीयमेव वत् / अथवा परस्य-अन्यस्येदमस्तीति तत्र गत्वा मार्गयत यूयमिति / मात्सर्यमिति / मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति / अथवा तेन तावत् द्रमकेण दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद ददाति / परोनतेवैमनस्यं च मात्सर्यम् , कषायरूषितेन वा चित्तेन ददतो मात्सर्यमिति / कालातिक्रम इति / उचितो यो भिक्षाकालः साधूनां तमतिक्रमय्यानागतं वा भुङ्क्ते पौषधोपवासी, स च कालातिक्रमो ग्रहीतुरप्रीतिकरोऽप्रस्तावाददानं चेत्यतीचारः / इत्येते पञ्चातिथिसंविगस्यातीचारा भवन्ति // 31 // १'कोकिलिकाकुलादिना' इति ङ-पाठः। २'मस्विन्न.' इति च-पाठः। ३'हारादिकप्रत्य.' इति च-पाठः। 'साचेत्ते निक्षेपः' इति घ-पाठः।