________________ पश्चातीचाराः 114 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 कथिताः सामायिकातिचारास्तत्समीपोद्देशभाजः खलु पौषधोपवासस्य केऽतिचारा इत्याहपौषधोपवासवतस्य सूत्रम्-अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसं - स्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि // 7-29 // भा०--अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्युपेक्षिताप्रमार्जितस्यादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितसंस्तारोपकमः अनादरः स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति // 29 // ____टी०-प्रत्यवेक्षणं-चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजङ्गमजन्तुशून्यता / प्रमार्जनं वस्त्रप्रान्तादिना, विशुद्धिहेतोर्यथा युज्यमानम् ,आगमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्यायं क्रियाकलापोऽगारिणः प्रतिनिर्दिश्यते। उत्सर्गः-त्यागो निष्ठ्यत-स्वेद-मलमूत्र-पुरीषादीनां, प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः। अथवा अप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपवासवतमतिचरतीति / आदानं-ग्रहणं यष्टिपीठफलकादीनाम् / तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यम् / अन्यथाऽप्रत्यवेक्षिताप्रमार्जितस्यादानमतिचारो, निक्षेपश्च / तथाऽप्रत्यवेक्षितेऽप्रमार्जिते च भूप्रदेशे संस्तारोपक्रमः / संस्तारः संस्तीर्यते यः प्रतिपन्नपौ. षधोपवासेन दर्भकुशकम्बलीवस्त्रादिस्तस्योपक्रमः-करणमनुष्ठानं, भूप्रदेशे, यद्वा दर्भादि संस्तीयते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः। अनादरः स्मृत्यनुपस्थापनं च प्रार व्याख्यातम् / अनादरः पोषधोपवासप्रतिपत्तिकर्तव्यताक्रियायां, तद्विषयमेव स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचार भवन्तीति // 29 // सम्प्रति प्रस्तावायातानुपभोगपरिभोगातिचारान् वक्तुकाम आहसूत्रम्-सचित्त-सम्बद्ध-संमिश्रा-भिषव-दुष्पकाहाराः // 7-30 // टी-भोजनकृतमुपभोगं विशिनष्टि भाष्येण भा०-सचित्ताहारः सचित्तसम्बद्धाहारः सचित्तसंमिउपभोगपरिभोगवतस्थापनातीचाराः श्राहारः अभिषवाहारः दुष्पक्काहारः इत्येते पञ्च भोगवत. स्थातिचारा भवन्ति // 30 // टी-चित्तं चेतनो संज्ञानमुपयोगोऽवधानमिति पर्यायाः / सचित्तश्चासावाहारश्च सचित्ताहारः। सचित्त आहारो वा यस्य, सचित्तमाहारयतीति वा सचित्ताहारः, मूलकन्दली. 1-3 'अप्रत्युपेक्षिता०' इति ग-पाठः / 4 'उपभोग०' इति घ-पाठः /