________________ सूत्रं 28 ] . स्वोपज्ञभाष्य टीकालङ्कृतम् कौत्कुचन नामेत्यादि / नामशब्दोऽलङ्कारार्थः / एतदेव च वाचो व्यापारणं हसनं चोभयंद्वयमपि, दुष्टकायप्रवीचारसंप्रयुक्तमिति / दुष्टः कायप्रवीचारो मोहनीयकर्मोदयसमावेशाद तधुक्तं-तत्सम्बद्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधानं कौत्कुच्यमिति / भा०-मौखर्यमसम्बद्धबहुप्रलापित्वम् / असमीक्ष्याधिकरणं लोकप्रतीतम्। उपभोगाधिकत्वं चेति // 27 // टी-मौखर्यमित्यादि / मुखरोऽनालोचितभाषी तुण्डिलः, तदेवाचष्टे-असम्बद्धबहुप्रलापित्वमिति / असम्बद्धमिति पूर्वापरेणाघटमानं, बहु प्रलपति तच्छीलश्च बहुपलापी तद्भावो बहुप्रलापित्वम्, यत्किभिदसम्बद्धं जल्पति, न च स्वात्मनः कश्चिदर्थ साधयतीति / असमीक्ष्याधिकरणं अनालोच्याधिकरणम् / असमीक्ष्य कुर्वाणः, स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणं, तच लोकप्रतीतमिति / यन्नात्मनः कश्चिदुपकारं करोति परप्रयोजनमेव केवलं साधयति तदसमीक्ष्याधिकरणं आत्मनोऽनुपयोगादिति विवेकिजनप्रतीतम् / उपभोगाधिकत्वं चेति / लोकप्रतीतमेवेत्यभिसम्बध्य स्नानालङ्कारादि यावदुपभुज्यते स्वात्मनस्तावदेव पेपयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकत्वम्, अनर्थदण्डविरतेः पञ्चातिचारा भवन्ति // 27 // अनर्थदण्डानन्तरोपदिष्टसामायिकातिचारप्रसिद्धयर्थमिदमुच्यतेसामायिकवतस्य सूत्रम्-योगदुष्प्रणिधानानादरस्मृत्यनुपश्चातीचाराः पस्थापनानि / / पस्थापनानि // 7-28 // भा०-कायदुष्प्रणिधानं वागदुष्प्रणिधानं मनोदुष्प्रणिधानं अनादरः स्मृत्यनुपस्थापनं इत्येते पञ्च सामायिकत्रतस्यातिचारा भवन्ति // 28 // टी०--युज्यन्त इति योगाः-कायादयः। प्रणिधानं प्रयोगः / दुष्टं प्रणिधानं दुष्प्रणिधानम् / दुष्प्रणिधानशब्दस्य च प्रत्येकमभिसम्बन्धं दर्शयति-कायदुष्प्रणिधानमिति / शरीरावयवाः पाणिपादादयस्तेषामनिभृततावस्थापनं कायदुष्प्रणिधानम् / वर्णसंस्काराभावार्थानवगमचापल्यानि वाकक्रिया वाग्दुष्प्रणिधानम् / क्रोधलोभाभिद्रोहाभिमानेादिकार्यव्यासङ्गजातसम्भ्रमो दुष्प्रणिधत्ते मन इति मनोदुष्प्रणिधानम् / अनादरोऽनुत्साहः, प्रतिनियतायां वेलायामकरणं सामायिकस्य, यथाकथञ्चित् प्रवृत्तिरनादर:-अनकाय, स्मृत्यनुपस्थापनमुद्माम्तचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः / किंविषयायाः स्मृतेः? सामायिकप्रस्तावात् तद्विषमाया इति / सामायिकं मया कर्तव्यं न कर्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः / स्मृतिमूलत्वाच मोक्षसाधनानुष्ठानस्येति, एते पञ्च सामायिकव्रतस्यातिचारा भवन्तीति॥२८॥ १'भवम्तीति' इति च-पाठः। 2 'मनोदुःप्रणिधानं वाग्दुःप्रणिधानं ' इति क-पाठः /