________________ 112 तत्वार्थाधिगममूत्रम् [ अध्याय:७ वात् लोष्टादीन् परेषां प्रतिबोधनाय क्षिपति / लोष्टादिपातसमनन्तरमेव च नेतन्यमीपमनुधावन्तीत्येते एन देशव्रतस्यातिचारा भवन्ति यस्माद् गमनागमनजनितप्राणव्यपरोपणपरिजिहीषया देशावकाशिकवतमभिगृह्यतेऽगारिणः तत्र स्वयपमर्दः कुतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने कियानपि गुणो लक्ष्यते / ईयोपथविशुद्री स्वयं निपुणत्वात्, परस्य च प्रमादवतो गमने ( आगमने) भूतोपमर्दसम्भवादिति // 26 // एवं प्रज्ञप्ते देशवतातिचारेऽनर्थदण्ड विरतेरतिचाराभिधित्सयेदमुच्यते--- अनर्थदण्डविरमण- सूत्रम्-कन्दपे-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोप्रतस्य पञ्चातीचाराः पभोगाधिकत्वानि // 7-27 // टी०-कन्दर्पः-कामस्तद्धेतुः विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते। रागोद्रेकात् प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दपः। मुखनयनोष्ठचरणभ्रविकारपूवेकः परिहासादिजनको भाण्डावकरस्येव कायिको व्यापारः। कौत्कुच्यं कुत्सितसङ्कोचनादिक्रियायुक्तः कुत्कुचः तद्भावः कौत्कुच्यम्-अनेकप्रकारा भाण्डादिविडम्बनक्रियाः / कुदिति कुत्सायां निपातो निपातानामानन्त्यात् / अन्ये पठन्ति कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभार तद्भावः कौकुच्यम् / धाष्टर्यप्रायमसभ्यासम्बद्धबहुलप्रलापित्वं मौखर्यम् / असमीक्ष्य-अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणं उचितादुपभोगादतिरेककरणंमसमीक्ष्याधिकरणं मुसलदात्रशिलापुत्रका स्त्रगोधूमयन्त्रकशिलाग्न्यादिदानलक्षणम् / उपभोग आत्मनः पान-भोजन-चन्दनकुकुम-कस्तूरिकाविलेपनादिः / अतिरिक्तोऽन्यार्थो दण्डोऽनर्थदण्डः केवलमेनसो हेतुः। प्रत्येकमुपभोगस्तुल्य एवेत्युपभोगादधिकत्वमुपभोगाधिकत्वमिति कृतद्वन्द्वाः पञ्चाप्यनर्थदण्डविरतिव्रतस्यातिचारा भवन्तीति // भा०--कन्दर्पः कौत्कुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमिस्येते पञ्चानर्थदण्डविरतेरैतिचारा भवन्ति / तत्र कन्दो नाम रागसंयुक्तोऽ. सभ्यो वाक्प्रयोगः हास्यं च / कौत्कुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् // टी---कन्दर्प इत्यादि भाष्यं प्रायो गतार्थम् / तत्र कन्दर्पो नामेत्यादि / तत्रतेषु पञ्चस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, रागःकामानुषङ्गी स्नेहस्तत्सम्बद्धः, सभाहः-सभ्यः, न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगः हास्यं चेति / वाचः प्रयोग-उच्चारणं वाक्प्रयोगः / हास्यं हि यावदस्पष्टवर्णश्रुतिरूपमिति / १'विरत्यति' इति कु-पाठः। २'कौकुच्य.' इति घ-पाठः। ३'भण्डोऽवारणस्येव ' 'भण्डचरणस्येव' इति पाठौ। 4 'रतिव्रतस्यातिचारा' इति घ-पाठः। 5 'नाम सरागसं.' इति ग-पाठः / 6 'कायप्रवीचार' इति घन्टीपाठः। . 'मोहोदयादवस्पष्ट.' इति च-पाठः।