________________ सूत्रं 26] स्त्रोपनभाष्य-टीकालकृतम् चाराः पञ्च दिग्वतस्थातीनारा भवन्ति / ऊर्ध्व पर्वततरुशिखरारोहणादिपरिमाणम् / अघश्चाधीलौकिकग्रामभूमिगृहकूपादिपरिमाणम्। तिर्यगपि योजनमर्यादाभिग्रहव्यतिक्रमः। क्षेत्रवृद्धिरिस्येकतो योजनशतपरिमाणमभिगृहीतम्, अन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने योजनशतमध्यादपनीय अन्यानि दश योजनानि तत्रैव स्वबुद्धयाऽग्रे प्रक्षिपति संवर्धयत्येकत इति क्षेत्रवृद्धिरेषा / स्मृत्यन्तर्धानस्वरूपमाचष्टे / स्मृतभ्रंशोऽन्तर्धानमिति अविस्मृतिमूलं नियमानुष्ठानम्। स्मृतिभ्रंशे तु नियमत एव नियमभ्रंशः किं मया परिगृहीतं कया मर्यादयेति व्रतमित्यस्मरतोऽन्तर्धानम्-अपाकरणं, तिरस्करणं नियमस्येति // 25 // देशव्रतविरतेरतिचाराभिधानायाह-- देशाधकाशिकवतस्य सूत्रम्-आनयनप्रेष्यप्रयोगशब्दरूपानपातपश्चातीचारा: पुद्गलक्षेपाः // 7-26 // भा०---द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति // 26 // दिग्देशग्रतयोर्विशेषः टी-दिव्रतविशेष इव देशवतम् / इयांस्तु विशेषः-एकं यावज्जीवं सब संवत्सरं चतुर्मासपरिमाणं वा / देशव्रतं तु प्रतिदिवसं प्रतिप्रहरं प्रतिमुहर्तादिपरिमाणम् / अस्यातिचाराः पश्च भवन्ति-द्रव्यस्यानयनमित्यादि / विशिष्टावधिके भूप्रदेशाभिग्रहे परतो गमनासम्भवात् सतो यदन्योऽवधिकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयनाय प्रयुज्यते त्वयेदमानेयं सन्देशकदानादिनाऽऽनयनप्रयोगः / आनायनप्रयोगः इत्यपरे पठन्ति / बलाद् विनियोज्यः प्रेष्यप्रयोगः यत्राभिगृहीतप्रविचार(?)देशव्यतिक्रमभयात् प्रेष्यं प्रहिणोति त्वयाऽवश्यमेव गत्वा मम गवाधानेयं इदं वा कर्तव्यं तत्रेति प्रेष्यप्रयोगः / स्वगृहवृतिप्राकारादिविच्छिन्नभूप्रदेशामिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनात् वृतिप्रकारप्रत्यासन्नवर्ती भूत्वा अभ्युच्छुसितादि शब्दकरणेन समवसतिकान् बोधयति / ते च तच्छब्दश्रवणात् तदुपकण्ठमाठौकन्त इति स देशव्रतातिचारः। अनुपातशब्दः प्रत्येकमभिसम्बध्यते / शब्दभनु पततीति शब्दानुपातः / स एव श्रोता पुरुषः / अथवा शब्दस्यानुपतनम्-उच्चारणं ताग येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयनुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः / तथा पुद्गलप्रक्षेपातिचारः। पुद्गलाः परमाग्वादयः / तत्संयोगाद् द्वयणुकादयः स्कन्धाः सूक्ष्मस्थूलमेदाः / तत्र ये बादराकारपरिणता लोष्टेष्टकाष्ठशकलादयस्तेषां क्षेपः-प्रेरणम् / कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभा १'पुदलप्रक्षेपाः' इति घी-पाटः। २'संदाना' इति -पाठः। तत्र कर्तव्यमिति' इति अ-पाठा।