________________ 110 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 भा०-क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धनधान्यप्रमाणातिक्रमः दासीदासप्रमाणातिकमा कुष्यप्रमाणातिक्रमः इत्येते पञ्च इच्छापरिमाणव्रतस्यातिचारा भवन्ति // 24 // ___टी०-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि / तत्र क्षेत्रं सस्योत्पत्तिभूमिः। तच सेतु केतुमे . दाद् द्विविधम् / तत्र सेतुक्षेत्रं अरघट्टादिसेक्यम् / मेघाकाशपतितोदकनिष्पाद्यक्षत्रवास्तुभदा सस्यं केतुक्षेत्रम् / वास्तु अगारं गृहमुच्यते / तदपि त्रिविधं खातं भूमिगृहकादि, उच्छितं प्रासादादि,खातोच्छ्रितं भूमिगृहस्योपरि प्रासादादिसन्निवेशः,तेषां क्षेत्रवास्तूनां प्रमाणं प्रत्याख्यानकालेऽभिगृहीतम्-एतापन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं यावचतुमासी संवत्सरं यावज्जीवं वा / अवधिकृतकालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणं इच्छापरिमाणवतातिचारः / हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पायादिकम् / तथा सुवर्णमपि / एतद्ग्रहणाचेन्द्रनीलमरकतायुपलकपरिग्रहः / सर्वेषामभिगृहीतप्रमाणातिक्रमेऽ. तिचारः / धनं गो-महिष्य-ऽजाविका-करभ-तुरग करिप्रभृतिचतुष्पदपरिग्रहः / धान्यं त्रीहिकोद्रव-मुद्ग-माष-तिल-गोधूम-यवप्रभृति सवेमगारिणा परिमितं ग्राह्य, उपरि प्रमाणाद ग्रहणमतिचारः। दासीदासाः कर्मकराः उपरुधिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादिसकलद्विपदाभिगृहीतपरिमाणातिकमोऽतीचारः / ततश्च हंस-मयूर-कुकुंट-सारिकादीनां च प्रमाणातिक्रमेऽतिचारः / कुप्यं कांस्य-लोह-ताम्र-सीसक-त्रपु मृद्भाण्डक त्वचिसार-विकारोदन्तिका-रोदन्तिका-काष्ठ-कुण्डक-पारी-मञ्चक-मश्चिकादिप्रमाणातिरेकग्रहणमतिचार इति / एवमेते इच्छापरिमाणव्रतस्यातिचाराः पश्च भवन्तीति // 24 // एवमणुव्रतातिचारानभिधाय सम्प्रति दिगादिव्रतानां क्रमेणातिचारानभिधातुमिच्छमाह / तत्र दिग्व्रतस्य तावत्दिग्वतस्य पश्चाती- सूत्रम्-ऊधिस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिचाराः स्मृत्यन्तर्धानानि // 7-25 // भा०-ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तधानमित्येते पञ्च दिनतस्यातिचारा भवन्ति / स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानमिति // 25 // टी-ऊर्ध्वमधरितर्यक प्राक्परिगृहीतस्य परिमाणस्य व्यतिक्रमः इति / व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः / क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति / सर्वे कृतद्वन्द्वा दिवारिमाणस्थाती १'दासदासी-' इति क-ग-पाठः। 2 'पत्रादि ' इति ग पाठः / 3 'कुचुक ' इत्यपि पाठः / 4 ' नियम ऊध्र्व स्मृते.' इति ग-पाठः /