________________ सूत्रं 24 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रकारा कामसेवा सर्वेषामनङ्गक्रीडा बलवति रागे प्रसूयते / समाचरतश्चैवमधैर्येण लिष्टचित्तस्य कियत् फलम् ?, तात्कालिकी छिदा व्याधेस्तावदेव फलं, इतरस्य च मार्गेणर्जुना सेवमानस्येति, नानङ्गक्रीडया कश्चिद गुणोऽतिरिक्तो लक्ष्यत इति उभयोरुभयमतिचार इति / तीवकामाभिनिवेश इति / तीवः-प्रकर्षप्राप्तः कामेऽभिनिदे शस्तीत्रकामाभिनिवेशस्तावन पर्यन्तचित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्ववितृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां निश्चलचाटकर इव मुहुर्मुहुश्चटकायामारोहति योपिति, वाजीकरणानि चोपयुक्ते जातकलमलकः / अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरङ्गावमर्दी च भवति सूत्रपाठ- पुरुष इत्ययमप्युभयोरतीचार इति / एते पञ्च ब्रह्मव्रतस्यातीचारा भवन्तीति / परामर्शः अन्ये पठन्ति सूत्रम्-"परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेश"इति / तत्र न बुद्धयामहे इत्वरिकापरिगृहीतागमनमिति / यदि कर्मधारयस्ततः पुंवद्भावः / अथासमासस्ततः सम्बन्धोऽपि दुर्घटः / न चान्यः प्रकारः समस्ति / अन्ये वन्यथा पदानि वंदन्ति / परविवाहकरणं इत्वरिकागमनं परिगृहीताऽपरिगृहीतागमनं अनअक्रीडा तीवकामाभिनिवेश इति त एवंवादिन इत्वरिका व्याचक्षते / कुत्सितसंकीर्णयोषिदित्वरिका / तद्यथा-उन्मत्ता बधिरा अन्धा मंकिका बाला दीक्षितेत्यादिका / एतदभिगमात् किल राजभयलोकाकीर्तिप्रत्यवायसम्भवः / पेरिगृहीता किल प्रोषितभर्तकेति सर्वमिदमननुपाति व्याख्यानमित्यपकर्ण्यम् // भा०-परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा तीवकामाभिनिवेश इत्येते पश्च ब्रह्मव्रतस्यातिचारा भवन्ति // 23 // टी०-गतार्थमेवेति // 23 // इच्छापरिमाणवतातिचारव्याचिख्यासयेदमाहस्थलपरिग्रहपरिमाण- सूत्रम्-क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदासव्रतस्य पश्चातीचाराः कुप्य-प्रमाणातिक्रमाः॥७-२४ // टी०-क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लङ्घनम्-अतिक्रमः, प्रमाणातिकम इति प्रत्येकमभिसम्बध्य भाष्यकृद् दर्शयति १.पर्यन्तच्छिन्नता' इति हु-पाठः, 'पर्यन्तश्चित्तता' इति तु क-ग-पाठः। २'सुखाय स्वकक्षान्तरे इति कु-पाठः। ३'छिदन्ति' इति च-पाठः। 4 'तार्किका' इति ङ-पाठः, 'अस्तकिका' इति तु च-पाठः 5 'परिगृहीतापरिगृहीता' इति च-पाठः। 6 'कर्ण्यते' इति क-ग-पाठः। 'तीतोऽतिकामा०' इति ग-पाठः