________________ 108 तत्त्वार्थाधिगमसूत्रम् [अभ्यायः 7 तक्र-ताम्र-कास्यादिपरिग्रहः / व्याजीकरणानि चेति / व्याजीकरणमपहृतानामन्यैर्गवादीनां सशृङ्गाणामग्निपककालिङ्गीफलस्वेदितानि शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यक कलितानि वा यथारुचि शक्यन्ते कतु येथाऽन्यत्वमिव प्रतिपद्यन्ते गवादयः / तथा कृतेषु शृङ्गेषु न सुखेनावधार्यन्तेऽन्यहस्ते या विक्रीयन्त इाते व्याजः। छद्माच्छमरूपाणां छद्मरूपत्वापादनं व्याजीकरणम् / एवमेते पश्चास्तेयव्रतस्यातिचारा भवन्ति // 22 // चतुर्थाणुव्रतस्यातिचाराभिधित्सयेदमुच्यतेस्थालानविरमण- सूत्रम्-परविवाहकरणे-त्वरपरिगृहीता-ऽपरिगृहीताव्रतस्य पञ्चातिचाराः गमनाऽनङ्गक्रीडा-तीव्रकामाभिनिवेशाः॥७-२३॥ टी०-एते पञ्च ब्रह्मव्रतस्यातिचाराः कृतद्वन्द्वा निर्दिष्टाः। परविवाहकरणं, इन्वरपरिगृहीतागमनं, अपरिगृहीतागमनं, अनङ्गक्रीडा, तीवकामाभिनिवेशश्चेति / तत्र परविवाहकरणमिति / स्वापत्यस्यागारिणोऽवश्यंतयैव विवाहः कार्यः, परविवाहकरणात् तु निवर्तने / गृहस्थश्च द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते स्वदारसन्तोषप्रतिपत्त्या परपरिगृहीतदारानभिगमनेन वा / स्वदारसेवनमेव प्रथमोऽभ्युपैति, शेषात् निवर्तते / द्वितीयस्तु परपरिगृहीतदारासेवन्गत् निवर्तते, न स्वदारेभ्यो न वा अपरिगृहीतवेश्यादिभ्यः / तयोश्च यथासम्भवति वारा स्वमतानुसारेणाभ्यूद्याः / तत्र . स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते तस्य विवाह करणं-विवाहक्रिया, कन्याफललिप्सया वा स्नेहसम्बन्धेन वा / इत्वरपरिगृहीतागमनम् / प्रतिपुरुषगमनशीला इत्वरा-वेश्याऽनेकपुरुषगामिनी भवति / तस्यै च यदाऽन्येन कश्चित् कालमभिगृह्य भाटी दत्ता भवति तावन्तं कालं अगम्याऽसौ निवृत्तपरदारस्य भवति / इत्वरा चासौ परिगृहीता चेति इत्वरपरिगृहीता / गमनम्-अभिगमोमैथुनासेवनम् / अथवा इत्वरं स्तोकमप्युच्यते। इत्वरं-स्तोकमल्पं परिगृहीता इत्वरपरिगृहीता, अकृतलक्षणस्तत्पुरुषो मयूरव्यंसकादो क्षेप्यः / अथवा इत्वरकालं परिगृहीता। शाकपार्थिवा. दित्वात् समासः काल(शब्द)लोपश्च / अपरिगृहीतागमनम् / वेश्या स्वैरिणी प्रोपितभर्टकादिरनाथा अपरिगृहीता तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारः, न तु निवृत्तपरदा. रस्य। अनङ्ग:-कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा योषितोऽपि योपिन्नपुंसक पुरुषासेपनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसकपुरुषस्र सेवनेच्छा हस्त फर्मादीच्छा वा स एवंविधोऽभिलाषोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः। तेन तत्तत्क्रीडा-रमणमनङ्गक्रीडा आहाथैः काष्ठपुस्तफलमृ. त्तिकाचर्मादिघटितप्रजननैः, कृतकृत्योऽपि च स्वलिङ्गेन भूयो मॅनात्ये गावाच्यप्रदेशं योषिम तथा केशकर्षणप्रहारदानदन्तनखकदर्थनाप्रकारैर्मोहनीयकर्मवशात् किल क्रीडति, तथा १'ततश्चान्य ' इति च-पाठः। 2 'करणमित्वर.' इति क-ख-ग-पाठः / 3 ' तत्र क्रीडा ' इति इ-पाठः / 'गृहात्येव ' इति हु-पाठः। 5 'कर्मावेशात् ' इति -पाठः /