________________ सूत्र 22] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 107 टी-एते इत्यादि गतार्थम् / तत्रेत्यादि। तत्र-तेम्वतीचारेषु / स्तेनप्रयोगस्तावदयम्-स्तेनेषु-तस्करेषु सम्भवति हिरण्यार्थ प्रयोगो हिरण्यादिप्रयोगः हिरण्यं रजतं घटिताघटितरूपम् / आदिशब्दात् कनकं च / घर्घरका याभिग्रंन्धि छित्त्वा गृह्णातीति / तथा खात्रखननकादि, एवं विधमुपकरणं नाणुव्रतिना निवर्तनीयं न विक्रेयमिति / स्तेनैरित्यादि / तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा-विना मूल्येन क्रयेण वा मूल्यप्रदानेन ग्रहणं तदाहृतादानं अनेकप्रत्यवायमिति परिहार्यम् // ___भा०-विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः। विरुद्ध हि राज्ये सर्व मेव स्तेययुक्तमादानं भवति // हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः। टी०-विरुद्धेत्यादि / विरुद्धराज्यातिक्रमः / अतिक्रमो-व्यवस्थोल्लङ्घनम् / व्यवस्था च परस्परविरुद्धराज्यकृतैव / चशब्दः समुच्चायकः / एष चास्तेयव्रतस्यातिचारः / विरुद्ध हीत्यादि / यस्माद् विरुद्ध राज्ये सर्वमादानं-ग्रहणं तगकाष्ठादेरपि स्तेययुक्तंचौरतया सम्बद्धं भवति / तस्माद् विरुद्धराज्यातिक्रमो न कार्यः / / हीनाधिकेत्यादि / समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनाथ, हीनमानव्यवहारोऽधिक. मानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति / एतदेव विवृणोति भा०--कूटतुलाकूटमानवश्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च / टी०-कूटतुलेत्यादि / प्रसिद्धटङ्कादिटङ्किता अकूटतुला / ततोऽपा कूटतुला / एवं मानमपि, आभ्यां कूटतुलाकूटमानाभ्यां वञ्चनं-दम्भनं छलनं, आदिशब्दाद् वचनकार्यक्रियाग्रहणं तैर्युक्तस्तद्युक्तः सम्बद्धः क्रयबद्धः। क्रयो-ग्रहणं विक्रयो-मूल्येन दानं, सर्वमेतन्न कार्यम् / वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारः, सामान्यवृद्धिप्रयोगोपन्यासः। स्वखपकादि वृद्धयाऽन्यस्य ददाति, सा च वृद्धिरन्याय्या न्याय्या च / तत्रान्याच्या परिहरणीया दशै. कादशकप्रभृतिः / यद्यप्युभयरुच्या सा क्रियते तथाप्यतितृष्णाभिभूत इत्यपोद्यते लोकेन / न्याय्या नूतन( तूना सा ? ) आदेयेति // भा०-प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पश्चारतेयत्रतस्यातिचारा भवन्ति // 22 // ___टी०-प्रतिरूपेत्यादि / नामशब्दः स्वरूपार्थः / प्रतिरूपकव्यवहारम्वरूपमिति / सुवर्णस्य प्रतिरूपत्रि.या यादृक् सुवर्ण तादृशमेवापरद्रव्यं वर्णगौरवादिगुणयुक्त निष्पादयति प्रयोगविशेषात् / तथा रूप्यं-रजतं कतिपयदिवसस्थायीति / आदिग्रहणात तेल-घृत-क्षीर दधि 'घटितरूपं ' इति ग-पाठः। २'कानि.' इति उ-पाठः। 4-5 'तुल्या' इति ग-पाठः। 6 'भूतन आदे.' इति च-पाठः। 3 'मानग्रहणं' इति उ-पाट. / 'प्रतिरूपक्रिया' इति काग-पाठः /